इह सौभाग्यमाप्नोति परत्र च शुभां गतिम्
न गर्भमाविशेद्भूयो भवेत्सौभाग्यभाजनम्
अपि जन्मसहस्रस्य पापं क्षयति तत्क्षणात् ऐहिकामुष्मिकान्कामान्स प्राप्स्यति महामतिः
मुने निशामयेदानीं गंगेश्वरसमुद्भवम्
यं श्रुत्वा यत्रकुत्रापि गंगास्नानफलं लभेत्
तेन दैलीपिना सार्धमस्मिन्नानंदकानने
स्मृत्वा लिंगप्रतिष्ठायाः काश्यां लोकोत्तरं फलम्
गंगेश्वरस्य लिंगस्य काश्यां दृष्टिः सुदुर्लभा
तस्य जन्मसहस्रस्य पापं संक्षीयते क्षणात्
तस्य संदर्शनं पुंसां जायते पुण्यहेतवे
प्रत्यक्षरूपिणी गंगा तेन दृष्टा न संशयः
भविष्यति न संदेहो मित्रावरुणनंदन
ततोपि दुर्लभं काश्यां लिंगं गंगेश्वराभिधम् 4.2.91.
श्रुत्वा गंगेश माहात्म्यं न नरो निरयी भवेत्
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुथें काशीखंड उत्तरार्धे गंगेश्वरमहिमाख्यानं नामैकनवतितमोऽध्यायः
यस्य स्मरणमात्रेण महापातकसंक्षयः
अस्य वाराहकल्पस्य प्रवेशे मुनिपुंगवैः
मार्कंडेय उवाच शृणुध्वं मुनयः सर्वे संति नद्यः परःशतम्
सर्वाभ्योपि नदीभ्यश्च श्रेष्ठाः सर्वाः समुद्रगाः
गंगा च यमुनाचाथ नर्मदा च सरस्वती
ऋग्वेदमूर्तिर्गंगा स्याद्यमुना च यजुर्ध्रुवम्
गंगा सर्वसरिद्योनिः समुद्रस्यापि पूरणी
किंतु पूर्वं तपस्तप्त्वा रेवया बह्वनेहसम्
गंगा साम्यं विधे देहि प्रसन्नोसि यदि प्रभो
यदि त्र्यक्षसमत्वं तु लभ्यतेऽन्येन केनचित् 4.2.92.
पुरुषोत्तम तुल्यः स्यात्पुरुषोन्यो यदि क्वचित
यदि गौरी समा नारी क्वचिदन्या भवेदिह
यदि काशीपुरी तुल्या भवेदस्या क्वचित्पुरी
निशम्येति विधेर्वाक्यं नर्मदा सरिदुत्तमा
सर्वेभ्योपि हि पुण्येभ्यः काश्यां लिंगप्रतिष्ठितेः