तैः स्वनाम्नेह लिंगानि कृत्वाऽऽपि कृतकृत्यता
वेत्ति तच्छ्रेयसः संख्यां शेषोपि न विशेषवित्
परिच्छेदव्यतीतस्यानंदस्य परकारणम्
निशम्येति महादेवी पुनः पादौ प्रणम्य च
पत्युराज्ञां समासाद्य यच्छेच्छ्रेयः पतिव्रता
इति प्रसाद्य देवेशमाज्ञां प्राप्य महेशितुः
तल्लिंगदर्शनात्पुंसां ब्रह्महत्यादिपातकम्
तत्र लिंगे वरो दत्तो देवदेवेन यः पुनः 4.2.90.
लिंगं यः पार्वतीशाख्यं काश्यां संपूजयिष्यति
काशीलिंगत्वमासाद्य मामेवानुप्रवेक्ष्यति
इह सौभाग्यमाप्नोति परत्र च शुभां गतिम्
न गर्भमाविशेद्भूयो भवेत्सौभाग्यभाजनम्
अपि जन्मसहस्रस्य पापं क्षयति तत्क्षणात् ऐहिकामुष्मिकान्कामान्स प्राप्स्यति महामतिः
मुने निशामयेदानीं गंगेश्वरसमुद्भवम्
यं श्रुत्वा यत्रकुत्रापि गंगास्नानफलं लभेत्
तेन दैलीपिना सार्धमस्मिन्नानंदकानने
स्मृत्वा लिंगप्रतिष्ठायाः काश्यां लोकोत्तरं फलम्
गंगेश्वरस्य लिंगस्य काश्यां दृष्टिः सुदुर्लभा
तस्य जन्मसहस्रस्य पापं संक्षीयते क्षणात्
तस्य संदर्शनं पुंसां जायते पुण्यहेतवे
प्रत्यक्षरूपिणी गंगा तेन दृष्टा न संशयः
भविष्यति न संदेहो मित्रावरुणनंदन
ततोपि दुर्लभं काश्यां लिंगं गंगेश्वराभिधम् 4.2.91.
श्रुत्वा गंगेश माहात्म्यं न नरो निरयी भवेत्
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुथें काशीखंड उत्तरार्धे गंगेश्वरमहिमाख्यानं नामैकनवतितमोऽध्यायः
यस्य स्मरणमात्रेण महापातकसंक्षयः
अस्य वाराहकल्पस्य प्रवेशे मुनिपुंगवैः
मार्कंडेय उवाच शृणुध्वं मुनयः सर्वे संति नद्यः परःशतम्
सर्वाभ्योपि नदीभ्यश्च श्रेष्ठाः सर्वाः समुद्रगाः
गंगा च यमुनाचाथ नर्मदा च सरस्वती