किं स्थानं वसतिर्वा का को बंधुर्वेत्सि किंचन
निशम्येति वचो मातुरतिह्रीणा गिरींद्रजा
मया श्वश्रूगृहं कांत गम्यमद्य विनिश्चितम्
गिरींद्रजागिरं श्रुत्वा गिरीश इति तत्त्ववित्
प्राप्यानंदवनं देवी परमानंदकारणम्
अथ विज्ञापयांचक्रे गौरी गिरिशमेकदा
इति गौरीरितं श्रुत्वा प्रत्युवाच पिनाकधृक्
तिलांतरं न देव्यस्ति विना लिंगं हि कुत्रचित् 4.2.90.
अन्यत्रापि हि सा देवि भवेदानंदकारणम्
परमानंदरूपाणि संति लिंगान्यनेकशः
तैः स्वनाम्नेह लिंगानि कृत्वाऽऽपि कृतकृत्यता
वेत्ति तच्छ्रेयसः संख्यां शेषोपि न विशेषवित्
परिच्छेदव्यतीतस्यानंदस्य परकारणम्
निशम्येति महादेवी पुनः पादौ प्रणम्य च
पत्युराज्ञां समासाद्य यच्छेच्छ्रेयः पतिव्रता
इति प्रसाद्य देवेशमाज्ञां प्राप्य महेशितुः
तल्लिंगदर्शनात्पुंसां ब्रह्महत्यादिपातकम्
तत्र लिंगे वरो दत्तो देवदेवेन यः पुनः 4.2.90.
लिंगं यः पार्वतीशाख्यं काश्यां संपूजयिष्यति
काशीलिंगत्वमासाद्य मामेवानुप्रवेक्ष्यति
इह सौभाग्यमाप्नोति परत्र च शुभां गतिम्
न गर्भमाविशेद्भूयो भवेत्सौभाग्यभाजनम्
अपि जन्मसहस्रस्य पापं क्षयति तत्क्षणात् ऐहिकामुष्मिकान्कामान्स प्राप्स्यति महामतिः
मुने निशामयेदानीं गंगेश्वरसमुद्भवम्
यं श्रुत्वा यत्रकुत्रापि गंगास्नानफलं लभेत्
तेन दैलीपिना सार्धमस्मिन्नानंदकानने
स्मृत्वा लिंगप्रतिष्ठायाः काश्यां लोकोत्तरं फलम्
गंगेश्वरस्य लिंगस्य काश्यां दृष्टिः सुदुर्लभा
तस्य जन्मसहस्रस्य पापं संक्षीयते क्षणात्
तस्य संदर्शनं पुंसां जायते पुण्यहेतवे