वारितो गणराजः स मा कार्षीः साहसं त्विति
प्राप्य दक्षं विनद्योच्चैर्धिक्त्वामीश्वरनिंदकम् स कथं सेश्वरं कर्म न कुर्याद्दक्षतांदधत्
येनास्येन पवित्रेण भवता निंदितः शिवः
इत्युक्त्वा तस्य दक्षस्य हरपारुष्यभाषिणः ।। 4.2.89.
ततस्त्वदितिमुख्यानां मिलितानां महोत्सवे
वेणीदंडाश्च कासांचित्तेनच्छिन्ना महारुषा
नासापुटांस्तथान्यासां पाटयामास पार्षदः
ये ये निनिंदुर्देवेशं ये ये च शुश्रुवुस्तदा
केचिदुल्लंबिता यूपे पाशयित्वा दृढं गले
द्विजराजश्च धर्मश्च भृगुमारीचिमुख्यकाः
एते जामातरस्तस्य यतो दक्षस्य दुर्धियः
तानि कुंडानि ते यूपास्ते स्तंभाः स च मंडपः
ते च वै यज्ञसंभारास्ते ते यज्ञप्रवर्तकाः
स्तोकेनैव हि कालेन यथर्धिः परवंचनात् 4.2.89.
विधीरितमिति श्रुत्वा स्मित्वा देवो महेश्वरः 4.2.89.
काश्यां लिंगप्रतिष्ठायैः कृताऽत्र सुकृतात्मभिः 4.2.89.
स्तुत्वा नानाविधैः स्तोत्रैः प्रसन्नं वीक्ष्य शंकरम् 4.2.89.
श्रुत्वाख्यानमिदं पुण्यं दक्षेश्वरसमुद्भवम्
अगस्त्य उवाच पार्वतीहृदयानंद पार्वतीश समुद्भवम्
शृण्वगस्ते यदा मेना हिमाचलपतिव्रता
किं स्थानं वसतिर्वा का को बंधुर्वेत्सि किंचन
निशम्येति वचो मातुरतिह्रीणा गिरींद्रजा
मया श्वश्रूगृहं कांत गम्यमद्य विनिश्चितम्
गिरींद्रजागिरं श्रुत्वा गिरीश इति तत्त्ववित्
प्राप्यानंदवनं देवी परमानंदकारणम्
अथ विज्ञापयांचक्रे गौरी गिरिशमेकदा
इति गौरीरितं श्रुत्वा प्रत्युवाच पिनाकधृक्
तिलांतरं न देव्यस्ति विना लिंगं हि कुत्रचित् 4.2.90.
अन्यत्रापि हि सा देवि भवेदानंदकारणम्
परमानंदरूपाणि संति लिंगान्यनेकशः