तं श्रुत्वा तुष्टहृदयोंऽबरीषो वाक्यमब्रवीत्
ममाश्रमे त्वं देवेश सदा सन्निहितो भव
यतस्त्वत्प्रतिमामेकामर्चयामि विधानतः
प्रतिमां पूजयामास गन्धपुष्पानुलेपनैः
ततः कालेन महता भगवान्विष्णुमंदिरे
अद्यापि भगवान्विष्णुः सत्यवाक्येन भूपतेः
तदारभ्य महाराज क्रियायोगो धरातले
यस्तं पूजयते भक्त्या हृषीकेशे नृपार्बुदे
एकादश्यां महाराज जागरं यः सदा नृप स यास्यति परं स्थानं दुर्ल्लभं त्रिदशैरपि
यत्पुण्यं कपिलादाने कार्तिक्यां ज्येष्ठपुष्करे 7.3.13.
शुक्ले वा यदि वा कृष्णे संप्राप्ते हरिवासरे
तस्मात्सर्वप्रयत्नेन पूजयेत्तु विधानतः अभ्यर्चयेद्धृषीकेशं न स भूयोऽभिजायते
एकः सर्वाणि तीर्थानि करोति नृपसत्तम
एको दानानि सर्वाणि ब्राह्मणेभ्यः प्रयच्छति
एकः कन्यासहस्रं तु प्रदद्याच्च यथाविधि
सूर्यग्रहे कुरुक्षेत्रे दद्याद्दानमनुत्तमम्
अग्निष्टोमादिभिर्यज्ञैर्यजत्येकः सदक्षिणैः
एको हिमालयं गत्वा त्यजति स्व कलेवरम्
एकस्तु भृगुपातेन त्यजेद्देहं सुतीर्थके
एकः प्रायोपवेशेन प्राणांस्त्यजति मानवः 7.3.13.
ब्रह्मज्ञानं वदत्येकः श्रुत्वा ज्ञानवि शारदः
गयाश्राद्धं करोत्येकः पितृपक्षे नृपोत्तम
चांद्रायणसहस्रं च करोत्येकः समाहितः
व्रतं तपः सहस्राब्दमेकः सम्यक्चरेन्नरः
एकस्तु चतुरो वेदान्सम्यक्पठति ब्राह्मणः
बहुना किमिहोक्तेन शृणु संक्षेपतो नृप
तस्मात्सर्वप्रयत्नेन स्थातव्यं हरिसंनिधौ
एकतस्तु हृषीकेश एकतः कर्णिकेश्वरः
अपि कृत्वा महत्पापं गच्छंति हरिसन्निधौ
पुष्पमेकं हृषीकेशे यश्चारोपयते नृप 7.3.13.