शृंगाग्राणि गिरीणां च कैश्चिदुत्पाटितानि वै
उत्पाट्य महतो वृक्षान्केचित्प्राप्ता मखांगणम्
मंडपं ध्वंसयामासुः केचित्क्रोधोद्धुरागणाः अभक्षयन्हवींष्यन्ये पृषदाज्यं पपुः परे
दध्वंसुरन्नराशींश्च केचित्पर्वतसन्निभान्
केचित्पक्वान्नपुष्टांगा यज्ञपात्राण्यचूर्णयन् 4.2.89.४० व्यभजञ्छकटान्केचित्पशून्केचिदजीगिलन्
स्वयं परिदधुश्चान्ये दुकूलानि मुदा युताः
एकेन च भगो देवः पश्यंश्चक्रे विलोचनः
यज्ञः पलायितो दृष्टः केनचिन्मृगरूपधृक्
एकः सरस्वतीं यांतीं दृष्ट्वा निर्नासिकां व्यधात्
अर्यम्णो बाहुयुगलं तथोत्पाटितवान्परः
चिच्छेद वायोर्वृषणं पार्षदोन्यः प्रतापवान्
यत्र धर्मे महेशो न प्रथमं परिपूज्यते
अनीश्वरं हविर्भुक्तं त्वयेत्या ताडयत्पदा
वामयामास बहुशो भक्षिता ह्यध्वराहुतीः 4.2.89.
रुद्राख्या धारणवशात्प्रमथैस्तेऽवहेलिताः
बहिरुद्गिरयामास यद्दत्तं चेशवर्ज्जितम्
उड्डीय गिरिमाश्रित्यच्छन्नः कौतुकमैक्षत
प्रमथाः कालयामासुरन्यानपि च याचकान् वीरभद्रः स्वतः प्राप्तः प्रमथानीकिनी वृतः
यज्ञवाटं श्मशानाभं दृष्ट्वा तैः प्रमथैः पुरा
गणाः पश्यत दुर्वृत्तैः प्रारब्धानां च कर्मणाम्
ये द्विषंति महादेवं सर्वकर्मैकसाक्षिणम्
क्व स दक्षो दुराचारः क्व च यज्ञभुजः सुराः
इत्याज्ञा वीरभद्रस्य प्राप्य ते प्रमथा द्रुतम्
तेन ते प्रमथाः सर्वे महाबलपराक्रमाः 4.2.89.
अथ नष्टेषु सर्वेषु प्रमथेषु हरेर्भयात्
ददर्श शार्ङ्गिणं चाग्रे स्वगणैश्च परिष्टुतम्
चक्रिभिर्गदिभिर्जुष्टं खड्गिभिश्चापि शार्ङ्गिभिः
त्वं तु यज्ञपुमानत्र महायज्ञप्रवर्तकः
किं वा दक्षं समानीय देहि युध्यस्व वा मया
प्रायशः शंभुभक्तेषु यतस्त्वं प्रोच्यसेऽग्रणीः