इत्याकर्ण्य सती साध्वी जनेतुरुदितं तदा
सत्युवाच नाकर्णितं मया किंचित्त्वयि प्रब्रुवति प्रभो
न सम्यग्वेत्ति तं कश्चिज्जानानोपि प्रतारितः
त्वं तु प्रतारितः पूर्वमधुनापि प्रतारितः 4.2.88.
यादृशं वक्षितं शंभुं तादृशं यद्यमन्यथाः
अथवा तेन संबंधे न हेतुर्भवतो मतिः
अथोक्त्वैवं बहुतरं त्वं जनेतास्य वर्ष्मणः
पुरश्चरणमेवैतद्यदस्यैव विसर्जनम् यावज्जीवितनाथस्याश्रवणीया विगर्हणा
इत्युक्त्वा क्रोधदीप्ताग्नौ महादेवस्वरूपिणि
ततो विवर्णतां प्राप्ताः सर्वे देवाः सवासवाः
मंत्राः कुंठितसामर्थ्यास्तत्क्षणादेव चाभवन्
केचिदूचुर्द्विजवरा मिथः परियियासवः
मखमंडप भूस्तेन क्षणतः स्थपुटीकृता
दिवश्चोल्काः प्रपतिताः पिशाचा नृत्यमादधुः 4.2.88.
दक्षोपि वदनग्लानिमवाप्य सपरिच्छदः
पुनः स नारदोऽगस्त्य देव्याः प्राक्समुपागतः
दृष्ट्वा स नारदः शंभुं नंदिना सह संकथाम्
उपाविशच्च शैलादि विसृष्टासनमुत्तमम्
आकारेणैव सर्वज्ञस्तद्वृत्तांतं विवेद ह
शरारिणां स्थितिरियमुत्पत्तिप्रलयात्मिका
दृश्यं विनश्वरं सर्वं विशेषाद्यदनीश्वरम्
अभाविनो हि भावस्य भावः क्वापि न संभवेत्
शंभूदीरितमाकर्ण्य स इत्थं मुनिपुंगवः
अवश्यमेव यद्भाव्यं तद्भूतं नात्र संशयः
नापचीयेत ते किंचिन्नोपचीयेत तत्त्वतः 4.2.89.
अहो वराकः संसारः क्व भविष्यत्यनीश्वरः
यतः प्रजापतिर्दक्षो न त्वामाहूतवान्क्रतौ
तव रीढां करिष्यंति किमैश्वर्येण रीढिनाम् अथैश्वर्येण संपन्नाः प्रतिष्ठाभाजनं किमु
महीयसायुषा तेषां वसुभिर्भूरिभिश्च किम्
अचेतनाश्च सावज्ञा जीवंतोपि न कीर्तये