सभर्तृकाश्च भगिनीर्नवालंकृतिशालिनीः
अचिंतिता त्वनाहूता विमानाद्धरवल्लभा
असंभाष्या पिताः सर्वा गता दक्षांतिकं सती
कथं नाहं समाहूता यथैता मे सहोदराः ।। 4.2.88.
अयं ते न मनाग्दोषो दोष एष ममैव हि
तादृग्विधाय यत्पत्ये मया दत्ताज्ञबुद्धिना
तदा कथमदास्यं त्वां तस्मै मायास्वरूपिणं
पितामहेन बहुधा वर्णितोसौ ममाग्रतः
श्रीकंठोसौ महेशोऽसौ सर्वज्ञोसौ वृषध्वजः
वाक्याच्छतधृतेस्तस्मात्तस्मै दत्ता मयानघे
पितृकाननसंवासं शूलिनं च कपालिनम्
कलंकिकृतमौलिं च धूलिधूसरचर्चितम्
क्वचिच्च चर्मवसनं क्वचिद्भिक्षाटनप्रियम्
रुद्रं रौद्रपरीवारं महाकालवपुर्धरम् 4.2.88.
न सम्यग्वेत्ति तं कश्चिज्जानानोपि प्रतारितः
क्व पांसुलपटच्छन्नो महाशंखविभूषणः
डमड्डमरुकव्यग्र हस्ताग्रः खंडचंद्रभृत्
मृडानि सहरः क्वाऽयमध्वरो मंगलालयः
दुकूलान्यनुकूलानि रत्नालंकृतयः शुभाः
इह मंगलवेशेषु देवेंद्रेषु स शूलधृक्
इत्याकर्ण्य सती साध्वी जनेतुरुदितं तदा
सत्युवाच नाकर्णितं मया किंचित्त्वयि प्रब्रुवति प्रभो
न सम्यग्वेत्ति तं कश्चिज्जानानोपि प्रतारितः
त्वं तु प्रतारितः पूर्वमधुनापि प्रतारितः 4.2.88.
यादृशं वक्षितं शंभुं तादृशं यद्यमन्यथाः
अथवा तेन संबंधे न हेतुर्भवतो मतिः
अथोक्त्वैवं बहुतरं त्वं जनेतास्य वर्ष्मणः
पुरश्चरणमेवैतद्यदस्यैव विसर्जनम् यावज्जीवितनाथस्याश्रवणीया विगर्हणा
इत्युक्त्वा क्रोधदीप्ताग्नौ महादेवस्वरूपिणि
ततो विवर्णतां प्राप्ताः सर्वे देवाः सवासवाः