एतत्सृजामि पाम्यद्मि त्वल्लीलाप्रेरितोंगने
शिवा शिवोदितं चेति श्रुत्वाप्याह महेश्वरम्
मनो मे चरणद्वंद्वे तव स्थास्यति निश्चलम्
शंभुः कात्यायनीवाक्यामिति श्रुत्वा तदाब्रवीत् 4.2.88.
मच्छक्ति धारिणी त्वं वा सृजैवान्यां क्रतुक्रियाम्
अन्यानाशु विधेहि त्वमृषीनार्त्विज्यकर्मणि
पितुर्यज्ञोत्सवो नाथ द्रष्टव्योऽत्र मया ध्रुवम्
कः प्रतीपयितुं शक्तश्चेतो वा जलमेव वा
निशम्येति पुनः प्राह सर्वज्ञो भूतनायकः
अद्य प्राचीं यियासुं त्वां वारयेत्पंगुवासरः
अद्य सप्तदशो योगो वियोगोद्य तनोऽशुभः
मा गा देवि गताद्य त्वं नहि द्रक्ष्यसि मां पुनः
तदा तन्वंतरेणापि करिष्ये तव दासताम्
परिक्षुब्धमनोवृत्तिं स्त्रियं वा पुरुषं तु वा 4.2.88.
परं न देवि गंतव्यं महामानधनेच्छुभिः
यथा सिंधुगता सिंधुर्न पुनः परिवर्तते
तथा त्वमेव मे नाथो भविष्यसि भवांतरे
इत्युक्त्वा निर्ययौ देवी कोपांधीकृतलोचना
न ननाम महादेवं न च चक्रे प्रदक्षिणम्
अप्रणम्य महेशानमकृत्वापि प्रदक्षिणम्
तया चरणचारिण्या राज्ञ्या त्रिभुवनेशितुः
देवोपि तां सतीं यांतीं दृष्ट्वा चरणचारिणीम्
गणा विमानं नयत मनःपवनचक्रिणम्
महावातपताकं च महाबुद्ध्यक्षलक्षितम् 4.2.88.
[http://vedastudy.tripod.com/pur_index25/ratha.htm रथोपरि टिप्पणी] छत्रीभूतौ च यत्रस्तः सूर्याचंद्रमसावपि
धूः स्वयं चापि गायत्री रज्जवस्तक्षकादयः
अंगानि रक्षका यत्र वरूथश्छंदसां गणः
देव्या सनाथं तं कृत्वा विमानं पार्षदा दिवि
सा क्षणं त्र्यक्षरमणी वीक्ष्य दक्षसभांगणम्
अविशद् यज्ञवाटं च चकितंरक्षि वीक्षिता