सृष्टिप्रलय संज्ञौ द्वौ ग्लहौ जयपराजयौ
भवतोः खेलसमयो यः सा स्थितिरुदाहृता
न देवी जेष्यति पतिं नेशः शक्तिं विजेष्यति
देवः सर्वज्ञनाथोपि न किंचिदवबुध्यति 4.2.88.
लीलात्मा गुणवानेष विचारादतिनिर्गुणः
मध्यस्थोपि हि सर्वस्य माध्यस्थ्यमवलंबतै
त्वं शक्तिरस्य देवस्य सर्वेषां मान्यभूः परा
परं त्वं सर्वजगतां जनयित्र्येकिका ध्रुवम्
त्वमात्मानं न जानासि त्र्यक्षमायाविमोहिता
अन्या अपि हि याः सत्यः पातिव्रत्यपरायणाः
अथवास्तामियं वार्ता प्रस्तुतं प्रब्रवीम्यहम्
अपूर्वमिव संवीक्ष्य परिप्राप्तस्तवांतिकम्
आश्चर्यहेतुरेवायं यत्पुंजातं त्रयीतले
सालंकारं समानं च सानंदमुखपंकजम् 4.2.88.
विषादे कारणं चैतद्यतो जातमिदं जगत्
तदेव तत्र नो दृष्टं भवद्वंद्वं भवापहम्
तदेव नाभवत्तत्र समभूदन्यदेव हि
तानि वाक्यानि चाकर्ण्य द्रुहिणेन ययेततः
शप्तश्च वीक्षमाणानां देवर्षीणां प्रजापतिः
दधीचिना समं केचिद्दुर्वासः प्रमुखा द्विजाः
प्रावर्तत महायागो हृष्टपुष्टमहाजनः
भगिन्योपि च या देवि तव तत्र सभर्तृकाः
इति देवी समाकर्ण्य सती दक्षकुमारिका
उवाच च भवत्वेवं शरणं भव एव मे 4.2.88.
द्रुतमेव समुत्तस्थौ प्रणनाम च शंकरम्
चरणौ शरणं ते मे देह्यनुज्ञा सदाशिव
मा निषेधीः प्रार्थयामि यास्यमि पितुरंतिकम्
अथोक्ता शंभुना देवी मृडान्युत्तिष्ठ भामिनि
लक्ष्म्या अपि च सौभाग्यं ब्रह्माण्यै कांतिरुत्तमा
त्वया च शक्तिमानस्मि महदैश्वर्यरक्षणे