तथापि शांभवी शक्तिर्वेदे विष्णुः प्रपठ्यते 4.2.87.
दीक्षितो योश्वमेधानां शतस्य कुलिशायुधः
पुनराराध्य भूतेशं प्रापैकाममरावतीम्
बलं तस्याखिलैर्ज्ञातं श्वेतं पाशयतः पुरा
पार्ष्णिग्राह्यभवद्रुद्रो देवाचार्यस्य वै तदा
तं विदंति वसिष्ठाद्यास्तवार्त्विज्यं भजंति ये
प्रावर्तंतर्षयोन्येपि गौरवात्तव ते क्रतौ
तदा क्रतुफलाधीशं विश्वेशं त्वं समाह्वय
सति तस्म्निमहादेवे विश्वकर्मैकसाक्षिणि
यथा जडानि बीजानि न फलंति स्वयं तथा
अर्थहीना यथा वाणी धर्महीना यथा तनुः ।। 4.2.87.
गंगाहीना यथा देशाः पुत्रहीना यथा गृहाः
मंत्रिहीनं यथा राज्यं श्रुतिहीना यथा द्विजाः
दर्भहीना यथा संध्या तिलहीनं च तर्पणम्
इत्थं दधीचिनाख्यातं जग्राह वचनं न तत्
प्रोवाच च भृशं क्रुद्धः का चिंता तव मे क्रतोः
तानि सिद्ध्यंति नियतं यथार्थकरणादिह
स्वकर्मसिद्धये चाथ सर्व एव हि चेश्वरः
तत्तथास्तु परं साक्षी नार्थं दद्याच्च कुत्रचित्
जडानि सर्वकर्माणि न फलंतीश्वरं विना
जडान्यपि च बीजानि कालं संप्राप्यवात्मनः 4.2.87.
आदिदेश समीपस्थानालोक्य परितस्त्विति 4.2.87.
ब्रह्मघोषेण तारेण व्योमशब्दगुणं स्फुटम् 4.2.87.
विद्याधरैर्ननंदे च वसुधा ववृधे भृशम् इत्थं प्रवृत्तेऽथ मुनिः कैलासं नारदो ययौ
अगस्त्य उवाच शिवलोकं समासाद्य मुनिना ब्रह्मसूनुना
स्कंद उवाच शृणु कुंभज वक्ष्यामि नारदेन महात्मना
मुनिर्गगनमार्गेण प्राप्य तद्धाम शांभवम्
तदुद्दिष्टासनं भेजे पश्यंस्तत्क्रीडनं परम्
तदौत्सुक्येन स मुनिः प्रेर्यमाण उवाच ह नारद उवाच देवदेव तव क्रीडाखिलं ब्रह्मांडगोलकम्
कृष्णाः कृष्णेतरा या वै तिथयस्ताश्च सारिकाः