न प्रायशस्तपस्व्येष क्व तपः क्वास्त्रधारणम्
असौ न ब्रह्मचारी स्यात्कृतपाणिग्रह स्थितिः 4.2.87.
न ब्राह्मणोभवत्येष यतो वेदो न वेत्त्यमुम्
क्षतात्संत्राणनात्क्षत्रं तत्क्वास्मिन्प्रलयप्रिये
शूद्रोपि न भवेत्प्रायो नागयज्ञोपवीतवान्
सर्वः प्रकृत्या ज्ञायेत स्थाणुः प्रकृतिवर्जितः
योषापि न भवेदेष यतोसौ श्मश्रुलाननः
बालोपि न भवत्येष यतोऽयं बहुवार्षिकः
अतो युवत्वं संभाव्यं नात्र नूनं चिरंतने
ब्रह्मादीन्संहरेत्प्रांते तथापि च न पातकी
अहो धार्ष्ट्यं महद्दृष्टं जटिलस्याद्य चाद्भुतम् 4.2.87.
एवंभूता भवंत्येव मातापितृविवर्जिताः
स्वच्छंदचारिणोऽनाथाः सर्वत्र स्वाभिमानिनः
जामातॄणां स्वभावोयं प्रायशो गर्वभाजनम्
द्विजराजः स गर्विष्ठो रोहिणीप्रेमनिर्भरः
अस्याहं गर्वसर्वस्वं हरिष्याम्येव शूलिनः
तथास्याहं करिष्यामि मानहानिं च सर्वतः
प्राप्य स्वभवनं देवानाजुहाव सवासवान्
भवंतु यज्ञसंभारानानयंतु त्वरान्विताः
महाक्रतूपद्रष्टारं यज्ञपूरुषमेव च
प्रावर्तत ततस्तस्य दक्षस्य च महाध्वरः 4.2.87.
अनीश्वरांस्ततो वेधा व्याजं कृत्वा गृहं ययौ
दक्षयज्ञे समायातान्सतीश्वरविवर्जितान्
दक्षस्य हि शुभोदर्कमिच्छन्प्रोवाच चेति वै दधीचिरुवाच
न चास्ति तव सामर्थ्यं क्वापि कस्यापि निश्चितम्
न तादृङ्नेदसि प्रायः क्वापि ज्ञातो महामते
कर्तव्यश्चेत्तदाकार्यः स्याच्चेत्संपत्ति रीदृशी
साक्षाच्च सर्वे मंत्रा वै साक्षाद्यज्ञपुमानसौ साक्षाद्ब्रह्मा स्वयं चैष भृगुर्वै कर्मकांडवित्
अयं पूषा भगस्त्वेष इयं देवी सरस्वती
त्वं च दीक्षां शुभां प्राप्तो देव्या च शतरूपया