अंबरीषस्य राजर्षेरैशान्यां पापनाशनम्
यत्र स्वयं हृषीकेशः काले च कलिसंज्ञके
पुरासीत्पृथिवीपालो ह्यंबरीषो युगे कृते
तस्मिंस्तीर्थे स राजेन्द्रो मितभक्षो जितेन्द्रियः
सहस्रे द्वे ततो राजञ्छीर्णपर्णाशनोऽभवत्
सहस्रत्रितयं राजन्वायुभक्षो बभूव ह
दश वर्षसहस्रान्ते ततश्च नृपसत्तम
कृत्वा देवपते रूपमारुह्यैरावतं गजम्
त्वां दृष्ट्वा भक्तिसंयुक्तमागतोऽहमसंशयम्
अंबरीष उवाच मुक्तिं दातुमशक्तोसि त्वं च वृत्रनिषूदन स्वागतं गच्छ देवेश न वरो रोचते मम ॥ 7.3.13.
सर्वथा दास्यते मह्यं वरं तुष्टश्चतुर्भुजः
ब्रह्मविष्णुत्रिनेत्राणामहमीशो नृपोतम
अन्येषां चैव देवानां त्रैलोक्यस्याप्यहं विभुः
प्रसन्ने मयि राजेन्द्र प्रसन्नाः सर्वदेवताः
सप्तद्वीपवती राजा अहं वृत्रनिषूदन
हषीकेशस्य सद्भक्तं विद्धि मां तात निश्चयम्
वज्रं त्वां प्रेरयिष्यामि वधाय कृतनिश्चयः
एवमुक्त्वा सहस्राक्षः सृक्किणी परिलेलिहन्
तस्येवं भ्राम्यमाणस्य महोत्पाता बभूविरे
आवृतं गगन मेघैर्विधुन्वानैर्महीं तदा 7.3.13.
एतस्मिन्नेव काले तु स राजा हरिवत्सलः
ततस्तुष्टो जगन्नाथ साक्षात्प्रत्यक्षतां गतः
तमुवाच हृषीकेशो मेघगंभीरया गिरा
वरं वरय भद्रं ते यद्यपि स्यात्सुदुर्लभम्
अंबरीष उवाच यदि प्रसन्नो भगवन्यदि देयो वरो मम
ज्ञानयोगं सुविस्तीर्णं संसारक्षयकारणम्
यस्मिञ्जाते नरः सद्यः संसारान्मुच्यते नृप
दुर्ज्ञेयः स नृणां देव विशेषाच्च कलौ युगे
अपि चेत्सुप्रसन्नोऽसि क्रियायोगं ब्रवीहि मे
यथायोग्यं नृपश्रेष्ठ कथयामास केशवः ॥ 7.3.13.