पुनःक्व नृत्वं श्रेयोभूः क्व काशीकर्मबंधहृत्
आयुष्यं च भविष्यं च सर्वमेव वृथागतम्
यास्यामि काशीमायाहि मायां हित्वा त्वमप्यहो
पुरीं वैश्वेश्वरीं प्राप्तो मनःस्वास्थ्यमवाप च
जगाम कुंभसंभूत स त्वाष्ट्रोपीत्यमन्यत
सत्पथस्थिरवृतीनां दूरस्थोपि समीपगः
क्वाहं तत्र वने बालश्चिंताकुलितमानसः
खेलोयमस्य त्र्यक्षस्य यस्य भक्तस्य कुत्रचित्
नाराधितो मया शंभुः प्राक्तने जन्मनि क्वचित् 4.2.86.
अस्मिञ्जन्मनि बालत्वान्न चैवाराधितः स्फुटम्
आज्ञातं गुरुभक्तिर्मे हेतुः शंभुप्रसादने
अथवा कारणापेक्षस्त्र्यक्षस्त्वितरदेववत्
यदि नो मय्यनुक्रोशः कथं तापससंगतिः
न दानानि न वै यज्ञा न तपांसि व्रतानि च
दयामपि तदा कुर्यादसौ विश्वेश्वरः पराम्
अनुक्रोशं समर्थ्येति स त्वाष्ट्रः र्शाभवं शुचिः
आनीय पुष्पसंभारमार्तवं काननाद्बहु
इत्थं त्वष्टृतनूजस्य लिंगाराधनचेतसः
तस्मादेव हि लिंगाच्च प्रादुर्भूय भवोऽब्रवीत् ।। 4.2.86.
प्रसन्नोस्मि भृशं बाल गुर्वर्थकृतचेतसः
यथार्थितं तथा कर्तुं ते सामर्थ्यं भविष्यति
अन्यान्वरांश्च ते दद्यां त्वाष्ट्र तुष्टस्त्वदर्चया
त्वं सुवर्णादिधातूनां दारूणां दृषदामपि
कर्पूरादिसुगंधीनां द्रव्याणामप्यपामपि
सर्वेषां वस्तुजातानां कर्तुं कर्म प्रवेत्स्यसि
तस्य तस्येह तुष्ट्यै त्वं तथा कर्तुं प्रवेत्स्यसि
सर्वाणि शिल्पकार्याणि तौर्यत्रिकमथापि च
नानाविधानि यंत्राणि नानायुधविधानकम्
तादृक्कर्तुं पुरा वेत्सि यादृङ्नान्योऽधियास्यति 4.2.86.
सर्वेंद्रजालिकी विद्या त्वदधीना भविष्यति