गुरूणां वाक्यकरणात्सर्व एव मनोरथाः
कथं तद्वचसः सिद्धिं प्राप्स्याम्यत्र वने स्थितः
आस्तां गुरुकथा दूरं योऽन्यस्यापि लघोरपि
कथमेतानि कर्माणि करिष्येऽज्ञोऽसहायवान्
यावदित्थं चिंतयति स त्वाष्ट्रो वनमध्यगः
अथ नत्वा स तं प्राह वने दृष्टं तपस्विनम्
त्वद्दर्शनेन मे गात्रं चिंतासंतापतापितम्
किं त्वं मे प्राक्तनं कर्म प्राप्तं तापसरूपधृक्
योसि सोसि नमस्तुभ्यमुपदेशेन युंक्ष्व माम् 4.2.86.
कथं कर्तुमहं शक्तः कर्म तत्र दिशाद्भुतम्
इत्युक्तस्तेन स वने तापसो ब्रह्मचारिणा
य आप्तत्वेन संपृष्टो दुर्बुद्धिं संप्रयच्छति
तापस उवाच ब्रह्मचारिञ्शृणु ब्रूयां किमद्भुततरं त्विदम्
यदि त्वं त्वाष्ट्र सर्वज्ञं काश्यामाराधयिष्यसि
विश्वेशानुग्रहात्काश्यामभिलाषा न दुर्लभाः
सृष्टेःकरण सामर्थ्यं सृष्टिरक्षाप्रवीणता
याहि वैश्वेश्वरं सद्म पद्मया समधिष्ठितम्
स हि सर्वप्रदः शंभुर्याचितश्चोपमन्युना
आनंदकानने शंभोः किं किं केन न लभ्यते 4.2.86.
स्वर्धुनी स्पर्शमात्रेण महापातकसंततिः
न तादृग्धर्मसंभारो लभ्यते क्रतुकोटिभिः
धर्मार्थकाममोक्षाणां यद्यत्रास्ति मनोरथः
सर्वकामफलप्राप्तिस्तदैव स्याद्ध्रुवं नृणाम्
स तापसोक्तमाकर्ण्य त्वाष्ट्र इत्थं सुहृष्टवान्
यत्र नो दुर्लभं किंचित्साधकानां त्रयीस्थितम्
स्वर्गे वा मर्त्यलोके वा बलिसद्मनि वा मुने
यत्र विश्वेश्वरो देवो विश्वेषां कर्णधारकः
सुलभा यत्र नियतमानंदवनचारिणः
कस्तां मां प्रापयेच्छंभोः कथं यामि तथा वद 4.2.86.
प्राहागच्छ नयामि त्वां यियासुरहमप्यहो