विश्वकर्मेश लिंगस्य प्रादुर्भावं मनोहरम्
विश्वकर्माभवत्पूर्वं ब्रह्मणस्त्वपरा तनुः
कृतोपनयनः सोथ बालो गुरुकुले वसन्
एकदा तद्गुरुः प्राह प्रावृट्काले समागते
यत्कदाचिन्न भज्येत न पुरातनतां व्रजेत्
ममांगयोग्यं नो गाढं न श्लथं च प्रयत्नतः
गुरुपुत्रेण चाज्ञप्तो ममार्थं पादुके कुरु
चर्मादिबंधनिर्मुक्ते धावतो मे सुखप्रदे
गुरुकन्यापि तं प्राह त्वाष्ट्र मे श्रवणोचिते 4.2.86.
कुमारी क्रीडनीयानि कौतुकानि च देहि मे
गृहोपकरणं द्रव्यं मुसलोलूखलादिकम्
अक्षालितान्यपि यथा नित्यं पीठानि सत्तम
सूपकर्मण्यपि च मां प्रशाधि त्वष्ट्रनंदन
एकस्तंभमयं गेहमेकदारुविनिर्मितम्
ये सहाध्यायिनोप्यस्य वयोज्येष्ठाश्च तेपि हि
तथेति स प्रतिज्ञाय सर्वेषां पुरतोद्रिजे
किंचित्कर्तुं न जानाति प्रतिज्ञातं च तेन वै
किं करोमि क्व गच्छामि को मे साहाय्यमर्पयेत्
अंगीकृत्य गुरोर्वाक्यं गुरुपत्न्या गुरोः शिशोः 4.2.86.
गुरुशुश्रूषणं धर्म एको हि ब्रह्मचारिणाम्
गुरूणां वाक्यकरणात्सर्व एव मनोरथाः
कथं तद्वचसः सिद्धिं प्राप्स्याम्यत्र वने स्थितः
आस्तां गुरुकथा दूरं योऽन्यस्यापि लघोरपि
कथमेतानि कर्माणि करिष्येऽज्ञोऽसहायवान्
यावदित्थं चिंतयति स त्वाष्ट्रो वनमध्यगः
अथ नत्वा स तं प्राह वने दृष्टं तपस्विनम्
त्वद्दर्शनेन मे गात्रं चिंतासंतापतापितम्
किं त्वं मे प्राक्तनं कर्म प्राप्तं तापसरूपधृक्
योसि सोसि नमस्तुभ्यमुपदेशेन युंक्ष्व माम् 4.2.86.
कथं कर्तुमहं शक्तः कर्म तत्र दिशाद्भुतम्