यत्त्वया स्थापितं लिंगं दुर्वासेश्वरसंज्ञितम्
तदेव कामकृन्नृणां कामेश्वरमिहास्त्विति
संस्नास्यति नरो धीमान्कामकुंडे त्वदास्पदे
स वै कामकृताद्दोषाद्यामीं नाप्स्यति यातनाम्
कामतीर्थांबु संस्नानाद्यास्यंति विलयं क्षणात्
इति दत्त्वा वराञ्शंभुस्तल्लिंगे लयमाययौ स्कंद उवाच
तस्मात्सर्वप्रयत्नेन काश्यां कामेश्वरः सदा 4.2.85.
कामकुंडकृतस्नानैर्महापातकशांतये यः श्रोष्यति च मेधावी तौ निष्पापौ भविष्यतः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां चतुर्थे काशीखंड उत्तरार्धे दुर्वाससो वरप्रदानं नाम पंचाशीतितमोऽध्यायः
तस्य लिंगस्य कथय देवदेव समुद्भवम्
विश्वकर्मेश लिंगस्य प्रादुर्भावं मनोहरम्
विश्वकर्माभवत्पूर्वं ब्रह्मणस्त्वपरा तनुः
कृतोपनयनः सोथ बालो गुरुकुले वसन्
एकदा तद्गुरुः प्राह प्रावृट्काले समागते
यत्कदाचिन्न भज्येत न पुरातनतां व्रजेत्
ममांगयोग्यं नो गाढं न श्लथं च प्रयत्नतः
गुरुपुत्रेण चाज्ञप्तो ममार्थं पादुके कुरु
चर्मादिबंधनिर्मुक्ते धावतो मे सुखप्रदे
गुरुकन्यापि तं प्राह त्वाष्ट्र मे श्रवणोचिते 4.2.86.
कुमारी क्रीडनीयानि कौतुकानि च देहि मे
गृहोपकरणं द्रव्यं मुसलोलूखलादिकम्
अक्षालितान्यपि यथा नित्यं पीठानि सत्तम
सूपकर्मण्यपि च मां प्रशाधि त्वष्ट्रनंदन
एकस्तंभमयं गेहमेकदारुविनिर्मितम्
ये सहाध्यायिनोप्यस्य वयोज्येष्ठाश्च तेपि हि
तथेति स प्रतिज्ञाय सर्वेषां पुरतोद्रिजे
किंचित्कर्तुं न जानाति प्रतिज्ञातं च तेन वै
किं करोमि क्व गच्छामि को मे साहाय्यमर्पयेत्
अंगीकृत्य गुरोर्वाक्यं गुरुपत्न्या गुरोः शिशोः 4.2.86.
गुरुशुश्रूषणं धर्म एको हि ब्रह्मचारिणाम्