गोकर्णो गजकर्णश्च कोकिलाख्यो गजाननः
सीरपाणिः शिवारावो वैणिको वेणुवादनः
इत्यादयो गणेशानाः शतकोटि दुरासदाः
क्षुब्धेषु तेषु वीरेषु चकंपे भुवनत्रयम्
तदा विविशतुः काश्यां सूर्याचंद्रमसावपि
निवार्य प्रमथानीकमतिक्षुब्धमुमाधवः
अथो दुर्वाससे लिंगादाविरासीत्कृपानिधिः 4.2.85.
माभूच्छापो मुनेः काश्यां निर्वाणप्रतिबंधकः
उवाच च प्रसन्नोस्मि महाक्रोधन तापस
ततो विलज्जितोगस्त्य शापोद्यतकरो मुनिः
उवाच चेति बहुशो धिङ्मां क्रोधवशंगतम्
दुःखार्णव निमग्नानां यातायातेति खेदिनाम्
सर्वेषां जंतुजातानां जनन्येकैक्काशिका। महामृतस्तन्यदात्री नेत्री च परमं पदम्
जनन्या सह नो काशी लभेदुपमितिं क्वचित्
एवंभूतां तु यः काशीमन्योपि हि शपिष्यति
इति दुर्वाससो वाक्यं श्रुत्वा देवस्त्रिलोचनः
यः काशीं स्तौति मेधावी यः काशीं हृदि धारयेत् 4.2.85.
जिह्वाग्रे वर्तते यस्य काशीत्यक्षरयुग्मकम्
यो मंत्रं जपति प्रातः काशी वर्णद्वयात्मकम्
आनुसूयेय ते ज्ञानं काशीस्तवन पुण्यतः
मुने न मे प्रियस्तद्वद्दीक्षितो मम पूजकः
तादृक्तुष्टिर्न मे दानैस्तादृक्तुष्टिर्न मे मखैः
आनंदकाननं येन स्तुतमेतत्सुचेतसा
तव कामाः समृद्धाः स्युरानुसूयेय तापस
अपरं च वरं ब्रूहि किं दातव्यं तवानघ
यस्यास्त्वेव हि सामर्थ्यं तपसः क्रुद्ध्यतीहसः
इति श्रुत्वा परिष्टुत्य दुर्वासाः कृत्तिवाससम् 4.2.85.
महापराधविध्वंसिन्नंधकारे स्मरांतक
मृत्युंजयोग्रभूतेश मृडानीश त्रिलोचन
तदिदं कामदं नाम लिगमस्त्विह धूर्जटे