यत्रैव हि तपस्यंति यत्रैव विहिताश्रमाः
मनाक्चिंतितमात्रं तु चेल्लभंते न तापसाः
तथापि तापसा मान्याः स्वश्रेयोवृद्धिकांक्षिभिः
इति यावन्महेशानो मनस्येव विचिंतयेत्
तत्कोधानलधूमोघैर्व्यापितं यन्नभोंगणम्
ततो गणाः परिक्षुब्धाः प्रलयार्णव नीरवत्
गर्जंतस्तर्जयंतश्च प्रोद्यता युधपाणयः 4.2.85.
को यमः कोथवा कालः को मृत्युः कस्तथांतकः
अग्निं पिबामो जलवच्चूर्णीकुर्मोखिलान्गिरीन्
पातालं चानयामोर्ध्वमधो दध्मोथवा दिवम्
ब्रह्मांडभांडमथवा स्फोटयामः क्षणेन हि
ग्रसामो वाथ भुवनं मुक्त्वा वाराणसीं पुरीम्
कुतोऽयं धूमसंभारो ज्वालावल्यः कुतस्त्वमूः
इति पारिषदाः शंभोर्महाभय भयप्रदाः
शकलीकृत्य बहुशः शिलावत्प्रलयानलम्
महाहनुर्महाग्रीवो महाकालो जितांतकः
क्षोभणो द्रावणो जृंभी पचास्यः पंचलोचनः 4.2.85.
चंडो भृंगिरिटिस्तुंडी प्रचंडस्तांडवप्रियः
क्षेमकः क्षेमधन्वा च वीरभद्रो रणप्रियः
दीर्घग्रीवोथ पिंगाक्षः पिंगलः पिंगमूर्धजः
गोकर्णो गजकर्णश्च कोकिलाख्यो गजाननः
सीरपाणिः शिवारावो वैणिको वेणुवादनः
इत्यादयो गणेशानाः शतकोटि दुरासदाः
क्षुब्धेषु तेषु वीरेषु चकंपे भुवनत्रयम्
तदा विविशतुः काश्यां सूर्याचंद्रमसावपि
निवार्य प्रमथानीकमतिक्षुब्धमुमाधवः
अथो दुर्वाससे लिंगादाविरासीत्कृपानिधिः 4.2.85.
माभूच्छापो मुनेः काश्यां निर्वाणप्रतिबंधकः
उवाच च प्रसन्नोस्मि महाक्रोधन तापस
ततो विलज्जितोगस्त्य शापोद्यतकरो मुनिः