तैः सुराः पूजिताः सर्वे ब्रह्मविष्णुमुखा मखैः
अहं तेनोमया सार्धं दीक्षां संप्राप्य शांभवीम्
तपांसि तेन तप्तानि शीर्णपर्णादिना चिरम्
दत्त्वा दानानि भूरीणि मखानिष्ट्वा तु भूरिशः
विपुलेत्र महीपृष्ठे पंचक्रोश्यां मनोहरा
दानानां च व्रतानां च क्रतूनां तपसामपि 4.2.84.
एतेषामपि तीर्थानां चतुर्णामपि सत्तम 4.2.84.
इति वीरेश्वराख्यानं तीर्थाख्यानप्रसंगतः
यथाख्यायि कथा पुण्या तथा ते कथयाम्यहम्
पुरा महीमिमां सर्वां ससमुद्राद्रिकाननाम्
परिभ्रम्य महातेजा महामर्षो महातपाः
विलोक्याक्रीडमखिलं बहुप्रासादमंडितम् । पदेपदे मुनीनां च जितकाल महाभियाम्
सर्वर्तुकुसुमान्वृक्षान्सुच्छायस्निग्धपल्लवान्
दुर्वासाश्चातिहृष्टोभू्द्दृष्ट्वा पाशुपतोत्तमान्
कौपीनमात्र वसनान्स्मरारि ध्यान तत्परान्
करंडदंडपानीय पात्रमात्रपरिग्रहान्
कालादपि निरातंकान्विश्वेशशरणं गतान् 4.2.85.
विलोक्य काश्यां दुर्वासा ब्राह्मणान्मुमुदेतराम्
पशुष्वपि च या तुष्टिर्मृगेष्वपि च या द्युतिः
इदं सुश्रेयसो व्युष्टिः क्वामरेषु त्रिविष्टपे
वरमेतेपि पशव आनंदवनचारिणः
वरं काशीपुरीवासी म्लेच्छोपि हि शुभायतिः
वैश्वेश्वरी पुरी चैषा यथा मे चित्तहारिणी
स्थैर्यं बबंध न क्वापि भ्रमतो मे मनोगतिः
रम्या पुरी भवेदेषा ब्रह्मांडादखिलादपि
तप्यमानोपि हि तपः सुचिरं स महातपाः
धिक्च मां तापसं दुष्टं धिक्च मे दुश्चरं तपः 4.2.85.
यथा न मुक्तिरत्र स्यात्कस्यापि करवै तथा
तत्र लिंगमभूदेकं ख्यातं प्रहसितेश्वरम्
उवाच विस्मयाविष्टो मनस्येव महेशिता