फलार्थं तु समायाता पतिता गिरिनिर्झरे ॥ 7.3.12.
स्नात्वा रूपमिदं प्राप्ता सुरूपं च शुभं मया
वशगास्ते सुराः सर्वे मयि किं क्रियते स्पृहा
निवृत्तमदनो भूत्वा तामुवाच सुमध्यमाम्
विनयात्तव तुष्टोऽहं दास्यामि वरमुत्तमम्
स्नानं यः कुरुते भक्त्या प्रीताः स्युः सर्वदेवताः
सुरूपं जायतां तेषां दुर्ल्लभं त्रिदशैरपि
विमाने च तया सार्द्धं जगाम त्रिदिवं प्रति
वपुः प्राप्तं तया यस्मात्तस्मात्पा र्थिवसत्तम
माघशुक्लतृतीयायां देवास्तस्मिञ्जलाशये
तत्रान्या देवकन्याश्च सिद्धयक्षांगनास्तथा 7.3.12.
रूपं च लभते तादृग्यादृग्लब्धं तया पुरा
तस्यैव पूर्वदिग्भागे बिलमस्ति सुशोभनम् ॥ यत्रागत्य प्रकुर्वंति स्नानं पातालकन्यकाः
तत्र स्नात्वा गृहीत्वापो बिले तस्मिन्व्रजंति ताः
तेनोदकेन संयुक्तः सिद्धो भवति मानवः
स्वर्गे वा भूतले वापि न केनापि प्रधृष्यते
तस्य पुष्पैः फलैश्चैव सर्वं कार्यं प्रसिद्ध्यति
तस्मिन्बिले तु पाषाणाः समन्ताच्छंखसन्निभाः
वन्ध्या नारी जलं तत्र या पिबेत्तिलकान्वितम्
व्याधिग्रस्तोऽपि यो मर्त्त्यः स्नानं तत्र समाचरेत्
भूतप्रेतपिशाचानां दोषः सद्यः प्रणश्यति 7.3.12.
अपि कीटपतंगा ये पिशाचाः पक्षिणो मृगाः
कथितं रूपतीर्थस्य न भूतं न भविष्यति
किमत्र कारणं ब्रह्मन्सर्वेभ्योऽप्यधिकं स्मृतम्
इन्द्रे राज्यपरिभ्रष्टे बलौ त्रैलोक्यनायके
तस्मिञ्जाते महाविष्णावदित्या चासुरान्तके
जातमात्रो हरिस्तस्मिन्स्थापितो निर्झरे तया
न चान्यत्कारणं राजन्सत्यमेतन्मयोदितम्
तिलकः सर्व वृक्षाग्र्यः पुत्रवत्परिपालितः
एतत्ते सर्वमाख्यातं तीर्थमाहात्म्यमुत्तमम् सर्वकामप्रदं नॄणामिह लोके परत्र च