जित्वा देवान्रणे सर्वानिंद्रादीन्मृगलोचने
आधायांके त्रिशूलं स्वे सुष्वापेति प्रलप्य सः
वरं स्मरंती सा गौर्या विद्याधरकुमारिका
आहूय तं नरवरं वरं सर्वांगसुंदरम्
शूलं तदंकादादाय गृहाणेमं जहि द्रुतम्
समादाय महाबाहुः स तदा मित्रजिन्नृपः
वामपादप्रहारेण तमाताड्य स निर्भयः
जर्गाद तिष्ठ रे दुष्ट कन्याधर्षणलालस
इति संश्रुत्य संभ्रांत उत्थाय स दनोः सुतः 4.2.82.
त्वया कपटरूपेण बलिनः कैटभादयः 4.2.82.
निजघान महाबाहुः स च प्राणाञ्जहौ क्षणात् 4.2.82.
अपि स्मृत्वा पुरीं यां वै काशीं त्रैलोक्यकांक्षिताम् ।। 4.2.82.
इति राज्ञोदिता राज्ञी प्रवक्तुमुपचक्रमे 4.2.82.
राज्ञ्युवाच अवधेहि धरानाथ कथयामि यथातथम्
पुरा पुरः श्रीदपत्न्याः श्रीमुख्या ब्रह्मसूनुना
चीर्णं चाथ तया देव्या पुत्रोभून्नलकूबरः
विधिनाप्यत्र संपूज्या गौरी सर्वविधानवित्
मार्गशीर्ष तृतीयायां शुक्लायां कलशोपरि
अविच्छिन्नं नवीनं च रजनीरागरंजितम्
तस्योपरि शुभं पद्मं रविरश्मिविकासितम्
विधिं संपूजयेद्भक्त्या रत्नपट्टाबंरादिभिः
सुगंधैश्चंदनाद्यैश्च कर्पूर मृगनाभिभिः
धूपैरगुरुमुख्यैश्च रम्ये कुसुममंडपे 4.2.83.
हस्तमात्रमिते कुंडे जातवेदस इत्यृचा
सहस्रकमलानां च स्मेराणां स्वयमेव हि
दद्यादाचार्यवर्याय सालंकारां सलक्षणाम्
प्रातःस्नात्वा चतुर्थ्यां च संपूज्याचार्यमादृतः
सोपस्करां च तां मृर्तिमाचार्याय निवेदयेत्
नमो विश्वविधानज्ञे विधे विविधकारिणि
सहसं भोजयित्वाथ द्विजानां भक्तिपूर्वकम्