सा विलोक्याथ तं बाला नितरां मधुराकृतिम्
शंखचक्रांकसुभग भुजद्वयविराजितम्
भवानीभक्तिबीजोत्थं भूरुहं पुरुषाकृतिम्
दोलापर्यंकमुत्सृज्य ह्रीभरा नम्रकंधरा
कस्त्वमत्र कृतांतस्य भवनं मधुराकृते
यावन्नायाति सुभग स कठोरतराकृतिः
कंकालकेतुर्दुर्वृत्तस्त्ववध्यः परहेतिभिः
न मे कन्याव्रतं भंक्तुं स समर्थ उमा वरात्
संचिकीर्षति दुष्टात्मा गतायुर्मम शापतः 4.2.82.
विद्याधर्येति चोक्तः स शस्त्रागारे निगूढवत्
अथ सायं समायातो दानवो भीषणाकृतिः
आगत्य दानवो रौद्रः प्रलयांबुदनिस्वनः
गृहाणेमानि रत्नानि दिव्यानि वरवर्णिनि
दासीनामयुतं प्रातर्दास्यामि तव सुंदरि
गंधर्वीणां नरीणां च किन्नरीणां शतंशतम्
राक्षसीनां शतान्यष्टौ शतमप्सरसां वरम्
यावत्संपत्तिसंभारो दिक्पालानां गृहेषु वै
दिव्यान्भोगान्मया सार्धं भोक्ष्यसे मत्परिग्रहात्
त्वदंगसंगसंस्पर्श सुखसंदोह मेदुरः 4.2.82.
मनोरथाश्चिरं यावद्यं मे हृदि समेधिताः
जित्वा देवान्रणे सर्वानिंद्रादीन्मृगलोचने
आधायांके त्रिशूलं स्वे सुष्वापेति प्रलप्य सः
वरं स्मरंती सा गौर्या विद्याधरकुमारिका
आहूय तं नरवरं वरं सर्वांगसुंदरम्
शूलं तदंकादादाय गृहाणेमं जहि द्रुतम्
समादाय महाबाहुः स तदा मित्रजिन्नृपः
वामपादप्रहारेण तमाताड्य स निर्भयः
जर्गाद तिष्ठ रे दुष्ट कन्याधर्षणलालस
इति संश्रुत्य संभ्रांत उत्थाय स दनोः सुतः 4.2.82.
त्वया कपटरूपेण बलिनः कैटभादयः 4.2.82.