तल्लिंगं पूजयामासुः श्रद्धया परया नृप
सर्वपापहरं नॄणां रूपसौभण्यदायकम्
तत्र पूर्वं वपुर्नाम्ना लोके ख्याता वराप्सराः
पुराऽऽसीत्काचिदाभीरी विरूपा विकृतानना
एकदा फलमादातुं भ्रममाणाऽर्बुदाचले
दिव्यमाल्यांबरधरा दिव्यैरंगैः समन्विता
सा संजाता महाराज तीर्थस्यास्य प्रभावतः
क्रीडार्थं पर्वतश्रेष्ठे तां ददर्श शुभेक्षणाम्
देवी वा नागकन्या वा सिद्धा विद्याधरी तु वा
मनो मेऽपहृतं सुभ्रूस्त्वया च पद्मनेत्रया
फलार्थं तु समायाता पतिता गिरिनिर्झरे ॥ 7.3.12.
स्नात्वा रूपमिदं प्राप्ता सुरूपं च शुभं मया
वशगास्ते सुराः सर्वे मयि किं क्रियते स्पृहा
निवृत्तमदनो भूत्वा तामुवाच सुमध्यमाम्
विनयात्तव तुष्टोऽहं दास्यामि वरमुत्तमम्
स्नानं यः कुरुते भक्त्या प्रीताः स्युः सर्वदेवताः
सुरूपं जायतां तेषां दुर्ल्लभं त्रिदशैरपि
विमाने च तया सार्द्धं जगाम त्रिदिवं प्रति
वपुः प्राप्तं तया यस्मात्तस्मात्पा र्थिवसत्तम
माघशुक्लतृतीयायां देवास्तस्मिञ्जलाशये
तत्रान्या देवकन्याश्च सिद्धयक्षांगनास्तथा 7.3.12.
रूपं च लभते तादृग्यादृग्लब्धं तया पुरा
तस्यैव पूर्वदिग्भागे बिलमस्ति सुशोभनम् ॥ यत्रागत्य प्रकुर्वंति स्नानं पातालकन्यकाः
तत्र स्नात्वा गृहीत्वापो बिले तस्मिन्व्रजंति ताः
तेनोदकेन संयुक्तः सिद्धो भवति मानवः
स्वर्गे वा भूतले वापि न केनापि प्रधृष्यते
तस्य पुष्पैः फलैश्चैव सर्वं कार्यं प्रसिद्ध्यति
तस्मिन्बिले तु पाषाणाः समन्ताच्छंखसन्निभाः
वन्ध्या नारी जलं तत्र या पिबेत्तिलकान्वितम्
व्याधिग्रस्तोऽपि यो मर्त्त्यः स्नानं तत्र समाचरेत्