स्वस्य त्रिशूलघातेन म्रियते नान्यथा रणे
यदि कोपि कृतज्ञो मां हत्वेमं दुष्टदानवम्
यदत्रोपचिकीर्षुस्त्वं रक्ष मां दुष्टदानवात्
विष्णुभक्तो युवा धीमान्पुत्रि त्वां परिणेष्यति
तथा निमित्तमात्रं त्वं भव यत्नं समाचर युवानं चापि धीमंतं त्वामनु प्राप्तवानहम्
तद्गच्छ कार्यसिद्ध्यै त्वं हत्वा तं दुष्टदानवम्
सा तु विद्याधरी जीवेद्विलोक्य त्वां नरेश्वर
इति नारदवाक्यं स निशम्यामित्रजिन्नृपः
उपायं चापि पप्रच्छ गंतुं तां चंपकावतीम् 4.2.82.
तूर्णमर्णवमासाद्य पूर्णिमादिवसे नृप
तत्र दिव्यांगना काचिद्दिव्यपर्यंक संस्थिता
यत्कर्मविहितं येन शुभं वाथ शुभेतरम्
गाथामिमां सा संगीय सरथा स महीरुहा
भवानप्यविशंकं च ततः पोतान्महार्णवे
ततो द्रक्ष्यसि पाताले नगरीं चंपकावतीम्
इत्युक्त्वांतर्हितो देवि स चतुर्मुखनंदनः
विवेशांतःसमुद्रं च नगरीमाससाद ताम्
तेन राज्ञा त्रिजगती सौंदर्यश्रीरिवैकिका
निरणायि मधुद्वेष्ट्रा स्रष्टुः सृष्टिविलक्षणा 4.2.82.
योषिद्रूपं समाश्रित्य तिष्ठतेऽत्राकुतोऽभया
सा विलोक्याथ तं बाला नितरां मधुराकृतिम्
शंखचक्रांकसुभग भुजद्वयविराजितम्
भवानीभक्तिबीजोत्थं भूरुहं पुरुषाकृतिम्
दोलापर्यंकमुत्सृज्य ह्रीभरा नम्रकंधरा
कस्त्वमत्र कृतांतस्य भवनं मधुराकृते
यावन्नायाति सुभग स कठोरतराकृतिः
कंकालकेतुर्दुर्वृत्तस्त्ववध्यः परहेतिभिः
न मे कन्याव्रतं भंक्तुं स समर्थ उमा वरात्
संचिकीर्षति दुष्टात्मा गतायुर्मम शापतः 4.2.82.
विद्याधर्येति चोक्तः स शस्त्रागारे निगूढवत्