स्त्रीवृद्धबालगोपाल वदनोदीरितानि तु
सुरसाकाननान्येव विलोक्यंते गृहेगृहे
सौधभित्तिषु दृश्यंते चित्रकृन्निर्मितानि तु
हरिणा नैव विध्यंते हरिनामांशधारिणः
न मत्स्या नैव कमठा न वराहाश्च केनचित्
अप्युत्तानशयास्तस्य राष्ट्रे मित्रजितः क्वचित्
पशवोपि तृणाहारं परित्यज्य हरेर्दिने
महामहोत्सवः सर्वैः पुरौकोभिर्वितन्यते
स एव दंड्योऽभूत्तस्य राज्ञो मित्रजितः क्षितौ 4.2.82.
अंत्यजा अपि तद्राष्ट्रे शंखचक्रांकधारिणः
शुभानि यानि कर्माणि क्रियंतेऽनुदिनं जनैः
विना मुकुंदं गोविदं परमानंदमच्युतम्
कृष्ण एव परो देव कृष्णएव परागतिः
एवं तस्मिन्महीपाले राज्यं सम्यक्प्रशासति
राज्ञा समर्चितः सोथ मधुपर्क विधानतः
सर्वभूतेषु गोविंदं परिपश्यन्विशांपते
यो वेद पुरुषो विष्णुर्यो यज्ञपुरुषो हरिः
तन्मयं पश्यतो विश्वं तव भूपालसत्तम
एक एव हि सारोत्र संसारे क्षणभंगुरे 4.2.82.
परित्यज्य हि यः सर्वं विप्णुमेकं सदा भजेत्
हृषीकेशे हृषीकाणि यस्य स्थैर्यं गतान्यहो
यौवनं धनमायुष्यं पद्मिनीजलबिंदुवत्
वाचि चेतसि सर्वत्र यस्य देवो जनार्दनः
निर्व्याज प्रणिधानेन शीलयित्वा श्रियःपतिम्
अनया विष्णुभक्त्या ते संतुष्टेंद्रियमानसः
बाला विद्याधरसुता नाम्ना मलयगंधिनी
कपालकेतुपुत्रेण दानवेन बलीयसा
पाताले चंपकावत्यां नगर्यां सास्ति सांप्रतम्
दृष्टः प्रणम्य विज्ञप्तो यथा तच्च निथामय 4.2.82.
बालक्रीडनकासक्तां मोहयित्वा निनाय सः