अलंघ्यशासनः श्रीमान्विष्णुभक्तिपरायणः
हरेरायतनान्युच्चैः प्रतिसौधं पदेपदे
गोविंदगोपगोपाल गोपीजनमनोहर
केशिहृत्कैटभाराते कंसारे कमलापते
पुरुषोत्तम पापारे पुंडरीकविलोचन
जनार्दन जगन्नाथ जाह्नवीजलजन्मभूः
श्रीवत्सवक्षः श्रीकांत श्रीकर श्रेयसां निधे
दैत्यारे दानवाराते दामोदर दुरंतक
विष्णो वैकुंठनिलय बाणारे विष्टरश्रवः 4.2.82.
त्रिविक्रमत्रिलोकीश चक्रपाणे चतुर्भुज
स्त्रीवृद्धबालगोपाल वदनोदीरितानि तु
सुरसाकाननान्येव विलोक्यंते गृहेगृहे
सौधभित्तिषु दृश्यंते चित्रकृन्निर्मितानि तु
हरिणा नैव विध्यंते हरिनामांशधारिणः
न मत्स्या नैव कमठा न वराहाश्च केनचित्
अप्युत्तानशयास्तस्य राष्ट्रे मित्रजितः क्वचित्
पशवोपि तृणाहारं परित्यज्य हरेर्दिने
महामहोत्सवः सर्वैः पुरौकोभिर्वितन्यते
स एव दंड्योऽभूत्तस्य राज्ञो मित्रजितः क्षितौ 4.2.82.
अंत्यजा अपि तद्राष्ट्रे शंखचक्रांकधारिणः
शुभानि यानि कर्माणि क्रियंतेऽनुदिनं जनैः
विना मुकुंदं गोविदं परमानंदमच्युतम्
कृष्ण एव परो देव कृष्णएव परागतिः
एवं तस्मिन्महीपाले राज्यं सम्यक्प्रशासति
राज्ञा समर्चितः सोथ मधुपर्क विधानतः
सर्वभूतेषु गोविंदं परिपश्यन्विशांपते
यो वेद पुरुषो विष्णुर्यो यज्ञपुरुषो हरिः
तन्मयं पश्यतो विश्वं तव भूपालसत्तम
एक एव हि सारोत्र संसारे क्षणभंगुरे 4.2.82.
परित्यज्य हि यः सर्वं विप्णुमेकं सदा भजेत्