कथमाविर्भवस्तस्य काश्यां लिंगवरस्य तु
यं श्रुत्वापि नरः पुण्यं प्राप्नोति विपुलं शिवे
आसीदमित्रजिन्नाम राजा परपुरंजयः
यशोधनो वदान्यश्च सुधीर्ब्राह्मणदैवतः
विनीतो नीतिसंपन्नः कुशलः सर्वकर्मसु
कृतज्ञो मधुरालापः पापकर्मपराङ्मुखः
रणांगणे कृतांताभः संख्यावांश्च सदोजिरे
धर्मार्थैधितकोशश्च समृद्धबलवाहनः
स्थैर्य धैर्य समापन्नो देशकालविचक्षणः 4.2.82.
वासुदेवांघ्रियुगले चेतोवृत्तिं निधाय सः
अलंघ्यशासनः श्रीमान्विष्णुभक्तिपरायणः
हरेरायतनान्युच्चैः प्रतिसौधं पदेपदे
गोविंदगोपगोपाल गोपीजनमनोहर
केशिहृत्कैटभाराते कंसारे कमलापते
पुरुषोत्तम पापारे पुंडरीकविलोचन
जनार्दन जगन्नाथ जाह्नवीजलजन्मभूः
श्रीवत्सवक्षः श्रीकांत श्रीकर श्रेयसां निधे
दैत्यारे दानवाराते दामोदर दुरंतक
विष्णो वैकुंठनिलय बाणारे विष्टरश्रवः 4.2.82.
त्रिविक्रमत्रिलोकीश चक्रपाणे चतुर्भुज
स्त्रीवृद्धबालगोपाल वदनोदीरितानि तु
सुरसाकाननान्येव विलोक्यंते गृहेगृहे
सौधभित्तिषु दृश्यंते चित्रकृन्निर्मितानि तु
हरिणा नैव विध्यंते हरिनामांशधारिणः
न मत्स्या नैव कमठा न वराहाश्च केनचित्
अप्युत्तानशयास्तस्य राष्ट्रे मित्रजितः क्वचित्
पशवोपि तृणाहारं परित्यज्य हरेर्दिने
महामहोत्सवः सर्वैः पुरौकोभिर्वितन्यते
स एव दंड्योऽभूत्तस्य राज्ञो मित्रजितः क्षितौ 4.2.82.
अंत्यजा अपि तद्राष्ट्रे शंखचक्रांकधारिणः