एतान्यवश्यं संसेव्य नरः प्राप्नोति शाश्वतम्
यच्छ्रुत्वापि नरो घोरे संसाराब्धौ न मज्जति 4.2.81.
दमस्य पुत्रस्तत्रासीद्दुर्दमो नाम पार्थिवः
हरेत्पुरंध्रीः प्रसभं पौराणां काममोहितः
अदंड्यान्दंडयांचक्रे दंड्येष्वासीत्पराङमुखः
विवासिताः स्वविषयात्तेन सन्मतिदायिनः
परदारेषुसंतुष्टः स्वदारेषु पराङ्मुखः
हारिणौ सर्वपापानां सर्ववांछितदायिनौ
स्वप्रजास्वेक उदितो धूमकेतुरिवापरः
स कदाचिन्मृगयुभिः पापर्धि व्यसनातुरः
एकाकी दैवयोगेन दुर्दमः सोऽवनीपतिः । धन्वी तुरंगमारुढोऽविशदानंदकाननम्
स विलोक्याथ सर्वत्र पादपा नवकेशिनः 4.2.81.
सुगंधेन सुशीतेन सुमदेन सुवायुना
केवलं मृगया जातस्तत्खेदो न व्यपाव्रजत्
अथावरुह्य तुरगात्स भूपालोतिविस्मितः
धन्योस्म्यहं प्रसन्नोस्मि धन्ये मेद्य विलोचने
पुनर्निनिंद चात्मानं धर्मपीठ प्रभावतः
जंतूद्वेगकरं मूढं प्रजापीडनपंडितम्
अद्ययावन्मम गतं वृथाजन्माल्पमेधस
एवं बहु विनिंद्य स्वं नत्वा धर्मेश्वरं विभुम्
ततोमात्यान्समाहूय क्रमायातांश्चिरंतनान् 4.2.81.
ब्राह्मणांश्चनमस्कृत्य तेभ्यो वृत्तीः प्रदाय च
परिदंड्य च दंडार्हान्साधूंश्च परितोष्य च
समागच्छदथैकाकी काशीं श्रेयोविकासिनीम्
धर्मेशदर्शनान्नित्यं तथाभूतः स दुर्दमः
इत्थं धर्मेश माहात्म्यं मया स्वल्पं निरूपितम्
इदं धर्मेश्वराख्यानं यः श्रोष्यति नरोत्तमः
श्राद्धकाले विशेषेण धर्मेशाख्यानमुत्तमम्
धर्माख्यानमिदं शृण्वन्नपि दूरस्थितः सुधीः
परां सिद्धिं परोपतुस्तत्र सिद्धाः परः शताः