युगपद्दर्शनाद्देव जायतां फलमुत्तमम्
दर्शनं ये करिष्यंति तेषां च तीर्थजं फलम्
एकं कोटिमयं लिंगं क्रियतां वृषभध्वज
यस्मिन्दृष्टे फलं नृणां जायते कोटिलिंगजम्
निर्भिद्य पर्वतश्रेष्ठं सहसा लिंगमुद्गतम्
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी
माघकृष्णचतुर्द्दश्यां यश्चैनं पूजयिष्यति
सर्वं कोटिगुणं तस्य फलं विप्रा भविष्यति
फलं कोटिगुणं तस्य गयाश्राद्धसमं भवेत् 7.3.11.
ततस्ते मुनयः सर्वे गंधधूपानुलेपनैः
तल्लिंगं पूजयामासुः श्रद्धया परया नृप
सर्वपापहरं नॄणां रूपसौभण्यदायकम्
तत्र पूर्वं वपुर्नाम्ना लोके ख्याता वराप्सराः
पुराऽऽसीत्काचिदाभीरी विरूपा विकृतानना
एकदा फलमादातुं भ्रममाणाऽर्बुदाचले
दिव्यमाल्यांबरधरा दिव्यैरंगैः समन्विता
सा संजाता महाराज तीर्थस्यास्य प्रभावतः
क्रीडार्थं पर्वतश्रेष्ठे तां ददर्श शुभेक्षणाम्
देवी वा नागकन्या वा सिद्धा विद्याधरी तु वा
मनो मेऽपहृतं सुभ्रूस्त्वया च पद्मनेत्रया
फलार्थं तु समायाता पतिता गिरिनिर्झरे ॥ 7.3.12.
स्नात्वा रूपमिदं प्राप्ता सुरूपं च शुभं मया
वशगास्ते सुराः सर्वे मयि किं क्रियते स्पृहा
निवृत्तमदनो भूत्वा तामुवाच सुमध्यमाम्
विनयात्तव तुष्टोऽहं दास्यामि वरमुत्तमम्
स्नानं यः कुरुते भक्त्या प्रीताः स्युः सर्वदेवताः
सुरूपं जायतां तेषां दुर्ल्लभं त्रिदशैरपि
विमाने च तया सार्द्धं जगाम त्रिदिवं प्रति
वपुः प्राप्तं तया यस्मात्तस्मात्पा र्थिवसत्तम
माघशुक्लतृतीयायां देवास्तस्मिञ्जलाशये