किं बहूक्तेन सुश्रोणि कृतंयेन व्रतं त्विदम्
श्रुत्वा धीमान्कथां पुण्यां पुनस्तद्गतमानसः
स्कंद देव्यै समाख्यातं तदाख्याहि कृपां कुरु
आकर्णय महाप्राज्ञ यथा देवेन भाषितम्
वृत्रं निहत्य वृत्रारिर्ब्रह्महत्यामवाप्तवान्
अपानुनुत्सुस्तद्याहि काशीं विश्वेशपालिताम्
नान्यत्किंचित्क्वचिद्दृष्टं ब्रह्महत्यामहौषधम्
भैरवस्यापिहस्ताग्रादपतद्वैधसं शिरः
सीमानमपि संप्राप्य शक्रानंदवनस्य हि
अन्येषामपि पापानां महापापजुषामपि
महापातकतो मुक्तिः काश्यामे व शतक्रतो
निर्वाणनगरी काशी काशी सर्वाघसंघहृत् ।। 4.2.81.
ब्रह्महत्याभयं यस्य यस्य संसारतो भयम्
जंतूनां कर्मबीजानां यत्र देहविसर्जने
तां काशीं प्राप्य वृत्रारे वृत्रहत्यापनुत्तये
बृहस्पतेरिति वचो निशम्य स सहस्रदृक्
स्नात्वोत्तरवहायां च धर्मेशं परितः स्थितः
महारुद्रजपासक्तः सुत्रामाथ त्रिलोचनम्
पुनस्तुष्टाव वेदोक्तै रुद्रसूक्तैरनेकधा
शचीपते प्रसन्नोस्मि वरं वरय सुव्रत
श्रुत्वेति देवदेवस्य स प्रेमवचनं हरिः
ततस्तत्कृपयानुन्नो धर्मपीठनिषेवणात् 4.2.81.
तत्रेंद्रः स्नानमात्रेण दिव्यगंधोऽभवत्क्षणात्
तदाश्चर्यमथो दृष्ट्वा मुनयो नारदादयः
अतर्पयन्पितॄन्दिव्यान्व्यधुः श्राद्धानि श्रद्धया
तदा प्रभृति तत्तीर्थं धर्मांधुरिति विश्रुतम्
यत्फलं तीर्थराजस्य स्नानेन परिकीर्त्यते
गंगाद्वारे कुरुक्षेत्रे गंगासागरसंगमे
नर्मदायां सरस्वत्यां गौतम्यां सिंहगे गुरौ
मानसे पुष्करे चैव द्वारिके सागरे तथा