प्रतिमासं तृतीयायामेवमाराध्य वत्सरम्
जातवेदसमंत्रेण तिलाज्यद्रविणेन च
सदैव नक्ते पूजोक्ता सदा नक्ते तु भोजनम्
गृहाण पूजां मे भक्त्या मातर्विघ्नजिता सह
नमो विघ्नकृते तुभ्यं नम आशाविनायक
एतौ मंत्रौ समुच्चार्य पूज्या गौरीविनायकौ
उपधान्या समायुक्तो दीपीदपर्णसंयुतः
व्रती समर्चयेद्वस्त्रैः करकर्णविभूषणैः 4.2.80.
दद्यात्पयस्विनीं गां च व्रतस्यपरिपूर्तये
मनोरथतृतीयाया व्रतमेतन्मया कृतम्
इत्याचार्यं समापृच्छ्य तथेत्युक्तश्च तेन वै
नक्तं समाचरेत्पोष्यैः सार्धं सुप्रीतमानसः
अभ्यर्च्य गंधमाल्याद्यैर्द्वादशापि कुमारिकाः
कार्यं मनोरथावाप्त्यै सर्वैरेतद्व्रतं शुभम्
तारिणीं दुःखसंसारसागरस्य पतिव्रताम्
कुमारी पतिमाप्नोति स्वाढ्यं सर्वगुणाधिकम्
दुर्भगा सुभगास्याच्च धनाढ्या स्याद्दरिद्रिणी
गुर्विणी च शुभं पुत्रं लभते सुचिरायुषम् 4.2.80.
कामी कामानवाप्नोति मोक्षार्थी मोक्षमाप्नुयात्
यो यो मनोरथो यस्य स तं तं विंदते ध्रुवम्
पुनः पप्रच्छ विश्वेशं प्रबद्धकरसंपुटा
अन्यत्र ये व्रतं चैतत्करिष्यंति सदाशिव
वाराणस्यां समर्च्या त्वं विश्वे प्रत्यक्षरूपिणी
आशा विघ्नजिता सार्धं सर्वाशापूर्तिकारिणा
क्षिप्रमागमयित्वा च नत्वा दूरंगतानपि
अन्यत्र व्रतिभिर्विश्वे कांचनीप्रतिमा तव
आचार्याय व्रती दद्याद् व्रतांते प्रतिमा द्वयम् 4.2.80.
ततः पुलोमजा देवि श्रुत्वैतद्व्रतमुत्तमम्
अरुंधत्या वसिष्ठोपि लब्धोऽत्रिऽनसूयया
सुनीतेदुर्भर्गत्वं च पुनरस्माद्व्रताद्गतम्