सिंदूरागुरु कस्तूरी चंदनं रक्तचंदनम्
प्रीत्यानुलेपनं बाले यक्षकर्दमसंभवम्
कस्तूरिकाया द्वौ भागौ द्वौ भागौ कुंकुमस्य च
यक्षकर्दम इत्येष समस्तसुरवल्लभः
पाटला मल्लिका पद्म केतकी करवीरकः
कुमारीभिः कर्णिकारैरलाभेतच्छदैः सह
करंभो दधिभक्तं च सचूतरसमंडकाः
समुद्गं सघृतं भक्तं कार्त्तिके विनिवेदयेत् 4.2.80.
मुष्टिकाः शर्करागर्भाः सर्पिषा परिसाधिताः
निवेदयेद्यदन्नं हि एकभक्तपि तत्स्मृतम्
प्रतिमासं तृतीयायामेवमाराध्य वत्सरम्
जातवेदसमंत्रेण तिलाज्यद्रविणेन च
सदैव नक्ते पूजोक्ता सदा नक्ते तु भोजनम्
गृहाण पूजां मे भक्त्या मातर्विघ्नजिता सह
नमो विघ्नकृते तुभ्यं नम आशाविनायक
एतौ मंत्रौ समुच्चार्य पूज्या गौरीविनायकौ
उपधान्या समायुक्तो दीपीदपर्णसंयुतः
व्रती समर्चयेद्वस्त्रैः करकर्णविभूषणैः 4.2.80.
दद्यात्पयस्विनीं गां च व्रतस्यपरिपूर्तये
मनोरथतृतीयाया व्रतमेतन्मया कृतम्
इत्याचार्यं समापृच्छ्य तथेत्युक्तश्च तेन वै
नक्तं समाचरेत्पोष्यैः सार्धं सुप्रीतमानसः
अभ्यर्च्य गंधमाल्याद्यैर्द्वादशापि कुमारिकाः
कार्यं मनोरथावाप्त्यै सर्वैरेतद्व्रतं शुभम्
तारिणीं दुःखसंसारसागरस्य पतिव्रताम्
कुमारी पतिमाप्नोति स्वाढ्यं सर्वगुणाधिकम्
दुर्भगा सुभगास्याच्च धनाढ्या स्याद्दरिद्रिणी
गुर्विणी च शुभं पुत्रं लभते सुचिरायुषम् 4.2.80.
कामी कामानवाप्नोति मोक्षार्थी मोक्षमाप्नुयात्
यो यो मनोरथो यस्य स तं तं विंदते ध्रुवम्