पुलोमतनया पूर्वं तताप परमं तपः
अपूपुजत्ततो मां सा भक्त्या परमया मुदा
तद्गानेनातिसंतुष्टो मृदुना मधुरेण च
प्रोवाच तां वरं ब्रूहि प्रसन्नोस्मि पुलोमजे
तं पूरय महादेव महादेवी महाप्रिय
सर्वदेवेषु यो मान्यः सर्वदेवेषु सुंदरः
यथाभिलषितं रूपं यथाभिलषितं सुखम्
यदायदा च पत्या मे संगः स्याद्धृत्सुखेच्छया
सदा च लिंगपूजायां मम भक्तिरनुत्तमा 4.2.80.
भर्तुर्व्ययेपि वैधव्यं क्षणमात्रमपीह न
समाकर्ण्य क्षणं स्मित्वा प्राहेशो विस्मयान्वितः
ईश्वर उवाच पुलोमकन्ये यश्चैष त्वयाकारि मनोरथः
मनोरथतृतीयायाश्चरणेन भविष्यति
तेन व्रतेन चीर्णेन महासौभाग्यदेन तु
कदा च तद्विधातव्यमिति कर्तव्यता च का
पूज्या विश्वभुजा गौरी भुजविंशतिशालिनी
वरदोऽभयहस्तश्च साक्षसूत्रः समोदकः
चैत्रशुक्ल तृतीयायां कृत्वा वै दंतधावनम् 4.2.80.
नियमं चेति गृह्णीयाज्जितक्रोधो जितेंद्रियः
प्रातर्व्रतं चरिष्यामि मातर्विश्वभुजेनघे
नियमं चेति संगृह्य स्वपेद्रात्रौ शुभं स्मरन्
शौचमाचमनं कृत्वा दंतकाष्ठं समाददेत्
नित्यंतनं च निष्पाद्य विधिं विधिविदांवरः
आदौ विनायकं पूज्य घृतपूरान्निवेद्य च
अशोकवर्तिनैवेद्यैर्धूपैश्चागुरुसंभवैः
अशोकवर्तिसहितैर्घृतपूरैर्मनोहरैः
राधादिफाल्गुनांतासु तृतीयासु व्रतं चरेत्
अनुलेपनवस्तूनि कुसुमानि तथैव च 4.2.80.
अन्नानि चैकभक्तस्य शृणुतानि फलाप्तये
प्लक्षोदुंबरखर्जूरी बीजपूरी सदाडिमी