भवांबुधौ महागाधे प्राणिनः परिमज्जतः
सौभाग्यभाग्यभूर्या वै विख्याता मणिकर्णिका
महासमाधिसंपन्नैर्वेदांतार्थ निषेविभिः
दीक्षितो वा दिवाकीर्तिः पंडितो वाप्यपंडितः
यत्त्यागेन्यत्र कृपणस्तत्प्राप्य मणिकर्णिकाम्
यदि दैवादिह प्राप्तस्त्रिसंयोगोऽतिदुर्घटः
शरीरमथ संपत्तिरथ सा मणिकर्णिका
पुनः पुनर्विचार्येति जंतुमात्रेभ्य एव च 4.2.79.
मुक्तिदा न मही सा मे वाराणस्यां महीयसी
परं लिंगार्चनस्थानमविमुक्तेश्वरेश्वरम्
सायं पाशुपतीं संध्यां कुर्यां पशुपतीश्वरे
प्रातःसध्याकरोम्येव सदोंकारनिकेतने
वसामि कृत्तिवासेहं सदा प्रति चतुर्दशि
रत्नेश्वरोर्चितो दद्यान्महारत्नानि भक्तितः
विष्टपत्रितयांतःस्थोप्यहं लिंगे त्रिविष्टपे
विरजस्कं महापीठं तत्र संसेव्य मानवः
पितृप्रीतिप्रदं पीठं वृषभध्वजसंज्ञकम् 4.2.79.
ममानुग्रहतः कीरानेतान्पश्य रवेः सुत 4.2.79.
आरुह्यते न यानेन दिव्यरूपवराः खगाः
उवाच शंभुं प्रणता प्रणतार्तिहरं परम्
तिरश्चामपि यज्जातं ज्ञानं संसारमोचनम्
अतः प्रभावं विज्ञाय धर्मपीठस्य धूर्जटे
अत्र लिंगे तु ये भक्ताः स्त्रियो वा पुरुषास्तु वा
अस्येह धर्मपीठस्य मनोरथकृतः सताम्
त एव विश्वभोक्तारो विश्वमान्यास्त एव हि
विश्वे विश्वभुजे विश्वस्थित्युत्पत्तिलयप्रदे
मनोरथतृतीयायां यस्ते भक्तिं विधास्यति
नारी वा पुरुषो वाथ त्वद्व्रताचरणात्प्रिये
किं फलं कैः कृतं नाथ कथयैतत्कृपां कुरु ।। 4.2.80.
मनोरथव्रतं चैतद्गुह्याद्गुह्यतरं परम्