निर्वाणलक्ष्मीर्वृणुते तं निर्वाणपदाप्तये
मोक्षलक्ष्मीविलासाख्य प्रासादस्योत्तरे मम
मत्प्रासादैंद्रदिग्भागे ज्ञानमंडपमस्ति यत्
भवानि राजसदने ममास्ति हि महानसम्
विशालाक्ष्या महासौधे मम विश्रामभूमिका
नियमस्नानतीर्थं च चक्रपुष्करिणी मम
यदाहुः परमं तत्त्वं यदाहुर्ब्रह्मसत्तमम्
यदाहुस्तारकं ज्ञानं यदाहुरतिनिर्मलम् 4.2.79.
जगन्मंगलभूर्यात्र परमा मणिकर्णिका
निर्वाणश्राणने यत्र पात्रापात्रं न चिंतये
भवांबुधौ महागाधे प्राणिनः परिमज्जतः
सौभाग्यभाग्यभूर्या वै विख्याता मणिकर्णिका
महासमाधिसंपन्नैर्वेदांतार्थ निषेविभिः
दीक्षितो वा दिवाकीर्तिः पंडितो वाप्यपंडितः
यत्त्यागेन्यत्र कृपणस्तत्प्राप्य मणिकर्णिकाम्
यदि दैवादिह प्राप्तस्त्रिसंयोगोऽतिदुर्घटः
शरीरमथ संपत्तिरथ सा मणिकर्णिका
पुनः पुनर्विचार्येति जंतुमात्रेभ्य एव च 4.2.79.
मुक्तिदा न मही सा मे वाराणस्यां महीयसी
परं लिंगार्चनस्थानमविमुक्तेश्वरेश्वरम्
सायं पाशुपतीं संध्यां कुर्यां पशुपतीश्वरे
प्रातःसध्याकरोम्येव सदोंकारनिकेतने
वसामि कृत्तिवासेहं सदा प्रति चतुर्दशि
रत्नेश्वरोर्चितो दद्यान्महारत्नानि भक्तितः
विष्टपत्रितयांतःस्थोप्यहं लिंगे त्रिविष्टपे
विरजस्कं महापीठं तत्र संसेव्य मानवः
पितृप्रीतिप्रदं पीठं वृषभध्वजसंज्ञकम् 4.2.79.
ममानुग्रहतः कीरानेतान्पश्य रवेः सुत 4.2.79.
आरुह्यते न यानेन दिव्यरूपवराः खगाः
उवाच शंभुं प्रणता प्रणतार्तिहरं परम्