वायुभक्षणतोन्यत्र यत्पुण्यं शरदां शतम्
मितं कृष्णलकेनापि योदद्यान्मुक्तिमंडपे
तत्रैकं जागरं कुर्याद्यस्मिन्कस्मिन्दिनेपि यः
तत्र दत्त्वा महादानं तत्र कृत्वा महाव्रतम्
प्रयाणं कुर्वते यस्य प्राणा मे मुक्तिमंडपे
जलक्रीडां सदा कुर्यां ज्ञानवाप्यां सहोमया
तज्जलक्रीडनस्थानं मम प्रीतिकरं महत्
तत्प्रासादपुरोभागे मम शृंगारमंडपः 4.2.79.
मदर्थं तत्र यो दद्याद्दुकूलानि शुचीन्यहो
नाना नेपथ्यवस्तूनि पूजोपकरणाऽन्यपि
निर्वाणलक्ष्मीर्वृणुते तं निर्वाणपदाप्तये
मोक्षलक्ष्मीविलासाख्य प्रासादस्योत्तरे मम
मत्प्रासादैंद्रदिग्भागे ज्ञानमंडपमस्ति यत्
भवानि राजसदने ममास्ति हि महानसम्
विशालाक्ष्या महासौधे मम विश्रामभूमिका
नियमस्नानतीर्थं च चक्रपुष्करिणी मम
यदाहुः परमं तत्त्वं यदाहुर्ब्रह्मसत्तमम्
यदाहुस्तारकं ज्ञानं यदाहुरतिनिर्मलम् 4.2.79.
जगन्मंगलभूर्यात्र परमा मणिकर्णिका
निर्वाणश्राणने यत्र पात्रापात्रं न चिंतये
भवांबुधौ महागाधे प्राणिनः परिमज्जतः
सौभाग्यभाग्यभूर्या वै विख्याता मणिकर्णिका
महासमाधिसंपन्नैर्वेदांतार्थ निषेविभिः
दीक्षितो वा दिवाकीर्तिः पंडितो वाप्यपंडितः
यत्त्यागेन्यत्र कृपणस्तत्प्राप्य मणिकर्णिकाम्
यदि दैवादिह प्राप्तस्त्रिसंयोगोऽतिदुर्घटः
शरीरमथ संपत्तिरथ सा मणिकर्णिका
पुनः पुनर्विचार्येति जंतुमात्रेभ्य एव च 4.2.79.
मुक्तिदा न मही सा मे वाराणस्यां महीयसी
परं लिंगार्चनस्थानमविमुक्तेश्वरेश्वरम्