मधुरं मृदुलं सत्यं स्वप्रमाणं सुसंस्कृतम्
देवोतिविस्मयापन्नो ऽवर्णयत्पीठगौरवम्
तत्रापि भोगभवनमनर्घ्यमणिनिर्मितम्
पतत्त्रिणो पिमुच्यंते यं कुर्वाणाः प्रदक्षिणम्
मोक्षलक्ष्मीविलासाख्य प्रासादस्य विलोकनात्
मोक्षलक्ष्मीविलासस्य कलशो यैर्निरीक्षतः
दूरतोपि पताकापि मम प्रासादमूर्धगा
भूमिं भित्त्वा स्वयं जातस्तत्प्रासादमिषेण हि 4.2.79.
ब्रह्मादिस्थावरांतानि यत्र रूपण्यनेकशः
ससौधो मेखिले लोके स्थानं परमनिर्वृतेः
मम सर्वगतस्यापि प्रासादोयं परास्पदम् अमूर्तं तदहं मूर्तो भूयां भक्तकृपावशात्
नैःश्रेयस्याः श्रियो धाम तद्याम्यां मंडपोस्ति मे
निमेषार्धप्रमाणं च कालं तिष्ठति निश्चलः
निर्वाणमंडपं नाम तत्स्थानं जगतीतले
प्राणायामं तु यः कुर्यादप्येकं मुक्तिमंडपे
निर्वाणमंडपे यस्तु जपेदेकं षडक्षरम्
शुचिर्गंगांभसि स्नातो यो जपेच्छतरुद्रियम्
ब्रह्मयज्ञसकृत्कृत्वा मम दक्षिणमंडपे 4.2.79.
धर्मशास्त्रं पुराणानि सेतिहासानि तत्र यः
तिष्ठेदिंद्रियचापल्यं यो निवार्य क्षणं कृती
वायुभक्षणतोन्यत्र यत्पुण्यं शरदां शतम्
मितं कृष्णलकेनापि योदद्यान्मुक्तिमंडपे
तत्रैकं जागरं कुर्याद्यस्मिन्कस्मिन्दिनेपि यः
तत्र दत्त्वा महादानं तत्र कृत्वा महाव्रतम्
प्रयाणं कुर्वते यस्य प्राणा मे मुक्तिमंडपे
जलक्रीडां सदा कुर्यां ज्ञानवाप्यां सहोमया
तज्जलक्रीडनस्थानं मम प्रीतिकरं महत्
तत्प्रासादपुरोभागे मम शृंगारमंडपः 4.2.79.
मदर्थं तत्र यो दद्याद्दुकूलानि शुचीन्यहो
नाना नेपथ्यवस्तूनि पूजोपकरणाऽन्यपि