पुलस्त्य उवाच तद्दृष्ट्वा विस्मितो विप्रो ज्ञात्वा तं वृषभध्वजम्
निश्चितं त्वं मया ज्ञात एतन्मे हृदि वर्तते
नान्यस्यायं प्रभावश्च त्वया यो मे प्रदर्शितः
वरं वरय भद्रं ते नृत्याधिक्यं यतः कृतम्
त्वत्प्रसादात्फलं तेषां राजसूयाश्वमेधयोः
ते यास्यंति परं स्थानं जरामरणवर्जितम्
अत्र गंगासरस्वत्योः संगमे लोकविश्रुते
सुवर्णं येऽत्र दास्यंति यथाशक्त्या द्विजोत्तमे
इत्युक्त्वांतर्दधे राजन्देवदेवो महेश्वरः ॥ 7.3.10.
यं दृष्ट्वा मानवः सम्यक्परां सिद्धिमवाप्नुयात्
शृणु तत्राभवत्पूर्वं यदाश्चर्यं महीपते
अन्योऽन्यं स्पर्धया सर्वे हेलयाऽर्बुदमागताः
आगमिष्यति यः पश्चाद्ब्राह्मणः श्वा भविष्यति
इत्येवं स्पर्धमानास्ते हेलयाऽर्बुदमागताः
शांतास्तपस्विनः सर्वे वेदविद्याविशारदाः
कृपया परयाविष्टो भक्तिभावान्महेश्वरः
एकस्मिन्नेव काले तु सर्वैर्दृष्टो महेश्वरः
अथ ते मुनयः सर्वे समं दृष्ट्वा महेश्वरम्
भक्तियुक्ता द्विजाः सर्वेऽस्तुवंस्ते वैदिकैः स्तवैः 7.3.11.
श्रीमहादेव उवाच तुष्टोऽहं मुनयः सर्वे श्रद्धया परया हि वः
युगपद्दर्शनाद्देव जायतां फलमुत्तमम्
दर्शनं ये करिष्यंति तेषां च तीर्थजं फलम्
एकं कोटिमयं लिंगं क्रियतां वृषभध्वज
यस्मिन्दृष्टे फलं नृणां जायते कोटिलिंगजम्
निर्भिद्य पर्वतश्रेष्ठं सहसा लिंगमुद्गतम्
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी
माघकृष्णचतुर्द्दश्यां यश्चैनं पूजयिष्यति
सर्वं कोटिगुणं तस्य फलं विप्रा भविष्यति
फलं कोटिगुणं तस्य गयाश्राद्धसमं भवेत् 7.3.11.
ततस्ते मुनयः सर्वे गंधधूपानुलेपनैः