अधीतिनोपि मूर्खाश्च स्वामिनः सेवका अपि
अभूम भूरिशः शंभो न क्वापि स्थैर्यमागताः
पिनाकिन्क्वापि न प्रापि सुखलेशो मनागपि
तापनेःसुतपो वह्निज्वालाप्रज्वलितैनसः
तथापि चेद्वरो देयस्तिर्यक्ष्वस्मासु धूर्जटे
येन ज्ञानेन मुक्ताः स्मोऽमुष्मात्संसारबंधनात्
ऐंद्रं पदं न वांछामो न चांद्रं नान्यदेव हि
त्वत्सान्निध्याद्विजानीमः सर्वज्ञ सकलं वयम् 4.2.79.
एतदेव परं ज्ञानं संसारोच्छित्तिकारणम्
निर्मथ्य विष्वग्वाग्जालं सारभूतमिदं परम्
यद्वाच्यं बहुभिर्ग्रंथैस्तदष्टाभिरिहाक्षरैः
याज्ञवल्क्यो मुनिवरः प्रोक्तवान्मुनिसंसदि
स्वामिनापि जगद्धात्री पुरतो मंदराचले
कृष्णद्वैपायनोप्येवं शंभो वक्ष्यति नान्यथा
वदंत्यन्येपि मुनयस्तीर्थसंन्यासकारिणः
वयमप्येवं जानीमो यत्र स्वर्गतरंगिणी
भूतं भावि भविष्यं यत्स्वर्गे मर्त्ये रसातले
अतो हिरण्यगर्भोक्तं हरिप्रोक्तं मुनीरितम् 4.2.79.
करामलकवत्सर्वमेतद्ब्रह्मांडगोलकम्
धर्मराजस्य तपसा तिर्यञ्चोपि वयं विभो
मधुरं मृदुलं सत्यं स्वप्रमाणं सुसंस्कृतम्
देवोतिविस्मयापन्नो ऽवर्णयत्पीठगौरवम्
तत्रापि भोगभवनमनर्घ्यमणिनिर्मितम्
पतत्त्रिणो पिमुच्यंते यं कुर्वाणाः प्रदक्षिणम्
मोक्षलक्ष्मीविलासाख्य प्रासादस्य विलोकनात्
मोक्षलक्ष्मीविलासस्य कलशो यैर्निरीक्षतः
दूरतोपि पताकापि मम प्रासादमूर्धगा
भूमिं भित्त्वा स्वयं जातस्तत्प्रासादमिषेण हि 4.2.79.
ब्रह्मादिस्थावरांतानि यत्र रूपण्यनेकशः
ससौधो मेखिले लोके स्थानं परमनिर्वृतेः