कृत्वाप्यघान्येव महांत्यपीह धर्मेश्वरार्चां सकृदेव कुर्वन्
पत्रेण पुष्पेण जलेन दूर्वया यो धर्मधर्मेश्वरमर्चयिष्यति
त्वत्तो विभेष्यंति कृतैनसो ये भयं न तेषां भविता कदाचित्
यदत्र दास्यंति हि धर्मपीठे नरा द्युनद्यां कृतमज्जनाश्च
ये कार्तिके मासि सिताष्टमी तिथौ यात्रां करिष्यंति नरा उपोषिताः
स्तुतिं च ये वै त्वदुदीरितामिमां नराः पठिष्यंति तवाग्रतः क्वचित्
पुनर्वरं ब्रूहि यथेप्सितं ददे तेजोनिधेर्नंदन धर्मराज
प्रसन्नमूर्तिं स विलोक्य शंकरं कारुण्यपूर्णं स्वमनोरथाभिदम्
आनंदबाष्पसलिलरुद्धकंठं विलोक्य तम्
अथ तत्स्पर्शसौख्येन धर्मराजो महातपाः
ततः प्रोवाच स ब्राध्निर्देव देवमुमापतिम्
प्रसन्नोसि यदीशान सर्वज्ञ करुणानिधे
यं न वेदा विदुः सम्यङ्न च तौ वेदपूरुषौ
श्रीकंठांडज डिंभानाममीषां मधुरब्रुवाम्
पितृभ्यां परिहीनानामितिहास कथाविदाम्
एतत्प्रसूतिसमये आमयेन प्रपीडिता
रक्षितानामनाथानां सदा मन्मुखदर्शिनाम्
इति धर्मवचः श्रुत्वा परोपकृतिनिर्मलम् 4.2.79.१
उवाच धर्मेति प्रीतः शुकशावानिदं वचः
को वरो भवता देयो धर्मेश परिचारिणाम्
इति श्रुत्वा महेशस्य वचनं ते पतत्त्रिणः
इतोपि त्र्यक्ष यत्साक्षात्तिर्यक्त्वेपि समीक्षिताः
लाभाः संतूद्यमवतां गिरीशेह परः शताः
यदेतद्दृश्यते नाथ तत्सर्वं क्षणभंगुरम्
विचित्रजन्मकोटीनां स्मृतिर्नोत्र परिस्फुरेत्
देवयोनिरपि प्राप्ता चिरमस्माभिरीशितः
आसुरी दानवी नागी नैर्ऋती चापि कैन्नरी
नरत्वे भूपतित्वं च परिप्राप्तमनेकशः 4.2.79.
वने वनौकसो जाता ग्रामेषु ग्रामवासिनः
सुखिनोपि वयं जाता दुःखिनो वयमास्म च