समीराभ्यवहर्तासीद्बहुदिष्टं सदिष्टवान् 4.2.78.
दिव्यां चतुर्युगीमित्थं स निनाय तपश्चरन्
ततोहं तस्य तपसा संतुष्टः स्थिरचेतसः
वटः कांचनशाखाख्यो यस्तपस्तापसंततिम्
मंदमद मरुल्लोल पल्लवैः करपल्लवैः
स्वानुरागैः सुरभिभिः स्वादुभिश्च पचेलिमैः
तदधस्तात्परं वीक्ष्य तमहं तपनांगजम्
तपस्तेजोभिरुद्यद्भिः परितः परिधीकृतम्
स्वाख्यांकितं महालिंगं प्रतिष्ठाप्यातिभक्तितः
साक्षीकृत्येव तल्लिंगं तप्यमानं महत्तपः
अलं तप्त्वा महाभाग प्रसन्नोस्मि शुभव्रत 4.2.78.
चकार स्तवनं चापि परिहृष्टेंद्रियेश्वरः
धर्म उवाच नमोनमः कारणकारणानां नमोनमः कारणवर्जिताय
अरूपरूपाय समस्तरूपिणे पराणुरूपाय परापराय
अनीश्वरस्त्वं जगदीश्वरस्त्वं गुणात्मकस्त्वं गुणवर्जितस्त्वम्
त्वमेव निर्वाणपद प्रदोसि त्वमेव निर्वाणमनंतशक्ते
त्वत्तो जगत्त्वं जगदेवसाक्षाज्जगत्त्वदीयं जगदेकबंधो
मृडस्त्वमेव श्रुतिवर्त्मगेषु त्वमेव भीमोऽश्रुतिवर्त्मगेषु
त्वमेव शूली द्विषतां त्वमेव विनम्रचेतो वचसां शिवोसि
नमोस्तु ते शंकर शांतशंभो नमोस्तु ते चंद्रकलावतंस
स एव धन्यस्तव भक्तिभाग्यस्तवार्चको यः सुकृती स एव 4.2.78.
कस्त्वामिह स्तोतुमनंतशक्ते शक्नोति मादृग्लघुबुद्धिवैभवः
स्कंद उवाच उदीर्य सूर्यस्य सुतोतिभक्त्या नमः शिवायेति समुच्चरन्सः
ततः शिवस्तं तपसातिखिन्नं निवार्य ताभ्यः प्रणतिभ्य ईश्वरः
त्वमेव धर्माधिकृतौ समस्त शरीरिणां स्थावरजंगमानाम्
त्वं दक्षिणायाश्च दिशोधिनाथस्त्वं कर्मसाक्षी भव सर्वजंतोः
त्वया यदेतन्ममभक्तिभाजा लिंगं समाराधितमत्र धर्म
धर्मेश्वरं यः सकृदेव मर्त्यो विलोकयिष्यत्यवदातबुद्धिः
कृत्वाप्यघानामिह यः सहस्रं धर्मेश्वरं पश्यति दैवयोगात्
यो धर्मपीठं प्रतिलभ्य काश्यां स्वश्रेयसे नो यततेऽत्र मर्त्यः त्वया यथाप्ता इह धर्मराज मनोरथास्ते गुरुभिस्तपोभिः 4.2.78.