इत्याख्यायि पुरांबायै मया तेपि निरूपितः
केदारेश्वरलिंगस्य श्रुत्वोत्पत्तिं कृती नरः
आनंदकानने शंभो यल्लिंगं पुण्यवर्धनम्
यत्सेव्यं साधकैर्नित्यं यत्र प्रीतिरनुत्तमा
यस्य संस्मरणादेव यल्लिंगस्य विलोकनात्
पंचामृतादि स्नपनपूर्वाद्यस्यार्चनादपि
सर्वज्ञेन यदाख्यातं तदाख्यास्यामि ते शृणु
देवदेव उवाच उमे भवत्या यत्पृष्टं भवबंधविमोक्षकृत्
आनंदकानने चात्र रहस्यं परमं मम
संति लिंगान्यनेकानि ममानंदवने प्रिये
ममापि येन त्रिपुरं समरे जयकांक्षिणः 4.2.78.
यत्रास्ति तीर्थमघहृत्पितृप्रीतिविवर्धनम्
धर्माधिकरणं यत्र धर्मराजोप्यवाप्तवान्
पक्षिणोपि हि यत्रापुर्ज्ञानं संसारमोचनम्
यल्लिंगदर्शनादेव दुर्दमो नाम पार्थिवः
तस्य लिंगस्य माहात्म्यमाविर्भावं च सुंदरि
धर्मपीठं तदुद्दिष्टमत्रानंदवने मम
पुरा विवस्वतः पुत्रो यमः परमसंयमी
शिशिरे जलमध्यस्थो वर्षास्वभ्रावकाशकः
पादाग्रांगुष्ठभूस्पर्शी बहुकालं स तस्थिवान्
समीराभ्यवहर्तासीद्बहुदिष्टं सदिष्टवान् 4.2.78.
दिव्यां चतुर्युगीमित्थं स निनाय तपश्चरन्
ततोहं तस्य तपसा संतुष्टः स्थिरचेतसः
वटः कांचनशाखाख्यो यस्तपस्तापसंततिम्
मंदमद मरुल्लोल पल्लवैः करपल्लवैः
स्वानुरागैः सुरभिभिः स्वादुभिश्च पचेलिमैः
तदधस्तात्परं वीक्ष्य तमहं तपनांगजम्
तपस्तेजोभिरुद्यद्भिः परितः परिधीकृतम्
स्वाख्यांकितं महालिंगं प्रतिष्ठाप्यातिभक्तितः
साक्षीकृत्येव तल्लिंगं तप्यमानं महत्तपः