वशिष्ठं पुरतः कृत्वा सर्वसार्थसमायुतम्
मत्परिग्रहतः सर्वे हरपापे कृतोदकाः
तदा प्रभृति लिंगेस्मिन्स्थितः साधकसिद्धये
तुषाराद्रिं समारुह्य केदारं वीक्ष्य यत्फलम्
गौरीकुंडं यथा तत्र हंसतीर्थं च निर्मलम्
इदं तीर्थं हरपापं सप्तजन्माघनाशनम्
अत्र पूर्वं तु काकोलौ युध्यतौ खान्निपेततुः
गौरि त्वया कृतं पूर्वं स्नानमत्र महाह्रदे 4.2.77.
अत्रामृतस्रवा गंगा महामोहांधकारहृत्
सरसा मानसेनात्र पूर्वं तप्तं महातपः
अत्र पूर्वं जनः स्नानमात्रेणैव प्रमुच्यते
सर्वे मुक्तिं गमिष्यंति यदि देवेह मानवाः
सर्वेषामेव वर्णानामाश्रमाणां च धर्मिणाम्
ततस्तदुपरोधेन तथेति च मयोदितम्
समर्चनाच्च भक्त्या वै मम नाम जपादपि
केदारतीर्थे यः स्नात्वा पिंडान्दास्यति चात्वरः
भौमवारे यदा दर्शस्तदा यः श्राद्धदो नरः
केदारं गंतुकामस्य बुद्धिर्देया नरैरियम् 4.2.77.
चैत्रकृष्णचतुर्दश्यामुपवासं विधाय च
केदारोदकपानेन यथा तत्र फलं भवेत्
केदारभक्तं संपूज्य वासोन्नद्रविणादिभिः
आषण्मासं त्रिकालं यः केदारेशं नमस्यति
कलौ केदारमाहात्म्यं योपि कोपि न वेत्स्यति
केदारेशं सकृद्दृष्ट्वा देवि मेऽनुचरो भवेत्
चित्रांगदेश्वरं लिंगं केदारादुत्तरे शुभम्
केदाराद्दक्षिणे भागे नीलकंठ विलोकनात्
तद्वायव्यंबरीषेशो नरस्तदवलोकनात्
इंद्रद्युम्नेश्वरं लिंगं तत्समीपे समर्च्य च 4.2.77.
तद्दक्षिणे नरो दृष्ट्वा लिंगं कालंजरेश्वरम्
दृष्ट्वा क्षेमेश्वरं लिंगमुद्क्चित्रांगदेश्वरात्