यस्तु केदारमुद्दिश्य गेहादर्धपथेप्यहो
तदाश्चर्यं समालोक्य स वशिष्ठस्तपोधनः
अथ कृत्वा स कैदारीं यात्रां वाराणसीमगात्
प्रति चैत्रं सदा चैत्र्यां यावज्जीवमहं ध्रुवम्
तेन यात्राः कृताः सम्यक् षष्टिरेकाधिका मुदा
पुनर्यात्रां स वै चक्रे मधौ निकटवर्तिनि
तपोधनैस्तन्निधनं शंकमानैर्निवारितः
ततोपि न तदुत्साहभंगोभूद्दृढचेतसः 4.2.77.
इति निश्चितचेतस्के वशिष्ठे तापसे शुचौ
स्वप्रेमया स संप्रोक्तो वशिष्ठस्तापसोत्तमः
अभीष्टं च वरं मत्तः प्रार्थयस्वाविचारितम्
ततोपि स मया प्रोक्तः स्वप्नो मिथ्याऽशुचिष्मताम्
वरं ब्रूहि प्रसन्नोस्मि स्वप्नशंकां त्यज द्विज
इत्युक्तं मे समाकर्ण्य वरयामास मामिति
यदि प्रसन्नो देवेश तदा मे सानुगा इमे
देवि तस्येदमाकर्ण्य परोपकृतिशालिनः
पुनः परोपकरणात्तत्तपो द्विगुणीकृतम्
स वशिष्ठो महाप्राज्ञो दृढ पाशुपतव्रतः 4.2.77.
ततस्तत्तपसाकृष्टः कलामात्रेण तत्र हि
ततः प्रभाते संजाते सर्वेषां पश्यतामहम्
वशिष्ठं पुरतः कृत्वा सर्वसार्थसमायुतम्
मत्परिग्रहतः सर्वे हरपापे कृतोदकाः
तदा प्रभृति लिंगेस्मिन्स्थितः साधकसिद्धये
तुषाराद्रिं समारुह्य केदारं वीक्ष्य यत्फलम्
गौरीकुंडं यथा तत्र हंसतीर्थं च निर्मलम्
इदं तीर्थं हरपापं सप्तजन्माघनाशनम्
अत्र पूर्वं तु काकोलौ युध्यतौ खान्निपेततुः
गौरि त्वया कृतं पूर्वं स्नानमत्र महाह्रदे 4.2.77.
अत्रामृतस्रवा गंगा महामोहांधकारहृत्
सरसा मानसेनात्र पूर्वं तप्तं महातपः