तमालनीलसुग्रीवः स्फुरत्फणिविभूषणः ।4.2.76.
जय श्मशाननिलय जय वाराणसीप्रिय 4.2.76.
जन्मांतरेपि मे सेवा भवतीभिश्च तेन च 4.2.76.
उपरिष्टादधस्ताच्च कृता बह्व्यः प्रदक्षिणाः 4.2.76.
अप्राप्तयौवनः सोथ समिदाहरणाय वै 4.2.76.
जातिस्वभावचापल्यात्क्रीडंत्यौ च प्रदक्षिणम् 4.2.76.
एकदा माधवे मासि महायात्रा समागता 4.2.76.
त्रिलोचनकथामेतां श्रुत्वा पापान्वितोप्यहो
वद केदारमाहात्म्यं भक्तानामनुकंपया
तस्मिँल्लिंगे महाप्रीतिस्तव काश्यामनुत्तमा
समाकर्ण्यापि यां पापोप्यपापो जायते क्षणात्
केदारं यातुकामस्य पुंसो निश्चितचेतसः
गृहाद्विनिर्गते पुंसि केदारमभिनिश्चितम्
मध्ये मार्गं प्रपन्नस्य त्रिजन्मजनितं त्वघम्
सायंकेदारकेदारकेदारेति त्रिरुच्चरन्
दृष्ट्वा केदारशिखरं पीत्वा तत्रत्यमंबु च
हरपापह्रदे स्नात्वा केदारेशं प्रपूज्य च
सकृत्प्रणम्य केदारं हरपापकृतोदकः 4.2.77.
हरपापह्रदे श्राद्धं श्रद्धया यः करिष्यति
पुरा राथंतरे कल्पे यदभूदत्र तच्छृणु
एको ब्राह्मणदायाद उज्जयिन्या इहागतः
स्थलीं पाशुपतीं काशीं स विलोक्य समंततः
कृतलिंगसमर्चैश्च भूतिभूषितवर्ष्मभिः
बभूवानंदितमना व्रतं जग्राह चोत्तमम्
स च शिष्यो वशिष्ठोभूत्सर्वपाशुपतोत्तमः
विभूत्याहरहः स्नाति त्रिकालं लिंगमर्चयन्
स द्वादशाब्ददेशीयो वशिष्ठो गुरुणा सह
यत्र गत्वा न शोचंति किंचित्संसारिणः क्वचित 4.2.77.
असिधारं गिरिं प्राप्य वशिष्ठस्य तपस्विनः
पश्यतां तापसानां च विमाने सार्वकामिके