नियमं चातिजग्राह विजितेंद्रियमानसः 4.2.76.
परयोषित्समासक्तिरायुः कीर्ति बलं सुखम्
अपरं चापि नियमं स शुचिष्मान्समाददे
समस्तपुण्यनिलयं समस्तार्थप्रकाशकम्
यावच्छरीरमरुजं यावन्नेंद्रियविप्लवः
इत्थं मांदारदामिः स नित्यं परिमलालयः
पारावत्यपि सा जाता रत्नदीपस्य मंदिरे
समस्तनागकन्यानां रूपशीलकलागुणैः
तस्या सखीद्वयं चासीदेका नाम्ना प्रभावती
स्वदेहादनपायिन्यौ छायाकांती यथा तया
सा तु बाल्ये व्यतिक्रांते किंचिदुद्रिन्नयौवना 4.2.76.
पितस्त्रिलोचनं काश्यामर्चयित्वा दिनेदिने
एवं नागकुमारी सा सखीद्वयसमन्विता
दिनेदिने सा प्रत्यग्रैः कुसुमैरिष्टगंधिभिः
तिस्रोपि गीतं गायंति लसद्गांधारसुंदरम्
वीणावेणुमृदंगांश्च लयतालविचक्षणाः
इत्थमाराधयंतीशं तिस्रो नागकुमारिकाः
एकदा माधवे मासि तृतीयायामुपोषिताः
प्रातश्चतुर्थीं स्नात्वाथ तीर्थं पैलिपिले शुभे
सुप्तासु तासु बालासु त्रिनेत्रः शशिभूषणः
तमालनीलसुग्रीवः स्फुरत्फणिविभूषणः ।4.2.76.
जय श्मशाननिलय जय वाराणसीप्रिय 4.2.76.
जन्मांतरेपि मे सेवा भवतीभिश्च तेन च 4.2.76.
उपरिष्टादधस्ताच्च कृता बह्व्यः प्रदक्षिणाः 4.2.76.
अप्राप्तयौवनः सोथ समिदाहरणाय वै 4.2.76.
जातिस्वभावचापल्यात्क्रीडंत्यौ च प्रदक्षिणम् 4.2.76.
एकदा माधवे मासि महायात्रा समागता 4.2.76.
त्रिलोचनकथामेतां श्रुत्वा पापान्वितोप्यहो
वद केदारमाहात्म्यं भक्तानामनुकंपया
तस्मिँल्लिंगे महाप्रीतिस्तव काश्यामनुत्तमा