स्थानं नो ब्रूहि देवेश स्थातव्यं च सदैव हि
अतस्तत्र च गंतव्यं तीर्थैरायतनैः सह
अपि कृत्वा महत्पापमर्बुदं प्रेक्षते तु यः
ततः सर्वाणि तीर्थानि गतानि च कलौ युगे
भूमावर्बुदशैलेन्द्रे संस्थितानि कलेर्भयात्
कुरुक्षेत्रं प्रभासं च ब्रह्मावर्तं तथैव च
तेषां वासश्च सञ्जातः पर्वतेऽर्बुदसंज्ञिके
तत्र शांता नराः सम्यक्परं निर्वाणमाप्नुयुः
शृणु तत्राभवत्पूर्वं यदाश्चर्यं महामते 7.3.10.
तपस्तेपे सुधर्मात्मा कामक्रोधविवर्जितः
पित्तं प्रपतितं तत्र तच्च रक्तमयं बभौ
सिद्धोऽहमिति विज्ञाय ततो नृत्यं चकार सः
तत्र संक्षोभमापन्नं सागरा अपि चुक्षुभुः
तस्यैवं नृत्यमानस्य सर्वे लोका नृपोत्तम
ततो देवगणाः सर्वे गत्वा कामनिषूदनम्
अथ ब्राह्मणरूपेण शंभुनोक्तो द्विजोत्तमः
संजातं सिद्धिमापन्नो रक्तं पित्तं यतो मम
एतस्मात्कारणाद्धर्षाद्द्विज नृत्यं करोम्यहम्
तर्जन्या ताडयामास स्वांगुष्ठं नृपसत्तम 7.3.10.
ततो मंकणकं प्राह पश्य विप्र करान्मम
पुलस्त्य उवाच तद्दृष्ट्वा विस्मितो विप्रो ज्ञात्वा तं वृषभध्वजम्
निश्चितं त्वं मया ज्ञात एतन्मे हृदि वर्तते
नान्यस्यायं प्रभावश्च त्वया यो मे प्रदर्शितः
वरं वरय भद्रं ते नृत्याधिक्यं यतः कृतम्
त्वत्प्रसादात्फलं तेषां राजसूयाश्वमेधयोः
ते यास्यंति परं स्थानं जरामरणवर्जितम्
अत्र गंगासरस्वत्योः संगमे लोकविश्रुते
सुवर्णं येऽत्र दास्यंति यथाशक्त्या द्विजोत्तमे
इत्युक्त्वांतर्दधे राजन्देवदेवो महेश्वरः ॥ 7.3.10.
यं दृष्ट्वा मानवः सम्यक्परां सिद्धिमवाप्नुयात्