प्रियोदितं निशम्येति स भवित्री दशार्दितः
अथापरस्मिन्नहनि स श्येनः प्रातरेव हि 4.2.76.
अस्ताचलस्य शिखरं याते भानौ गते खगे
नाथ निर्गमनस्यायं कालः कालोऽतिदूरतः
त्वयि जीवति दुष्प्राप्यं न किंचिज्जगतीतले
यद्यात्मा रक्षितः पुंसा दारैरपि धनैरपि
अयमात्मा प्रियो बंधुरयमात्मा महद्धनम्
यावदात्मनि वै क्षेमं तावत्क्षेमं जगत्त्रये
यशोहीनं तु यत्क्षेमं तत्क्षेमान्निधनं वरम्
अतो नीतिपथं श्रुत्वा नाथ स्थानादितो व्रज
इत्युक्तोपि स वै पत्न्या पारावत्या सुमेधया
अथोषसि समागत्य श्येनेन बलिना तदा 4.2.76.
दिनानि कतिचित्तत्र स्थित्वा श्येनो महामतिः
किंवा युध्यस्व दुर्बुद्धे किंवा निर्याहि मे गिरा
द्वौ भवंतावहं चैकश्चलौ जयपराजयौ !। स्थानार्थं युध्यतः सत्त्वात्स्वर्गो वा दुर्गमेव वा
पुरुपार्थं समालंब्य ये यतंते महाधियः
इत्थं स श्येनसंप्रोक्तः पत्न्याप्युत्साहितः खगः
क्षुधितस्तृषितः सोथ श्येनेन बलिना धृतः
तावादायोड्डयांचक्रे श्येनो व्योमनि सत्वरम्
अथ पत्न्या कलरवः प्रोक्तस्तत्र सुमेधया
तदा हितं ते वक्ष्यामि कुरु चैवाविचारितम् 4.2.76.
यावदास्यगतास्म्यस्य यावत्खस्थो न भूमिगः
सपीडितो दृढं पादे श्येनश्चीत्कृतवान्बहु
तेन चीत्करणेनाथ मुक्ता सा मुखसंपुटात्
विपद्यपि च न प्राज्ञैः संत्या ज्यः क्वचिदुद्यमः
क्व च द्वयोस्तथाभूता दरेर्मोक्षणमद्भुतम्
तस्माद्भाग्यानुसारेण फलत्येव सदोद्यमः
अथ तौ कालयोगेन विपन्नौ सरयूतटे
मृतानां यत्र जंतूनां काशीप्राप्तिर्भवेद्ध्रुवम्
अनेकविद्यानिलयः कलाकौशलभाजनम्