रमस्व त्वं मया सार्धं त्यज चिंतामिमां शुभे
इत्थं पारावतवचः श्रुत्वा पारावती ततः 4.2.76.
हितवर्त्मोपदिश्यापि प्रिय प्रियचिकीर्षया
अन्येद्युरप्यथायातः श्येनो पश्यत्स दंपती
अथ मंडलगत्या स प्रासादं परितो भ्रमन्
गतेऽथ नभसि श्येने पुनः पारावतांगना
तस्या वाक्यं समाकर्ण्य पुनः कलरवोब्रवीत्
दुर्गं च स्वर्गतुल्यं मे यत्र नास्त्यरितो भयम्
प्रडीनोड्डीन संडीन कांडव्याडकपाटिकाः
यथैतास्विह कौशल्यं मयि पारावति प्रिये
सुखेन तिष्ठ का चिंता मयि जीवति ते प्रिये
अपरेद्युरपि श्येनस्तत्र भारशिलातले 4.2.76.
आयामं तत्र संस्थित्वा तत्कुलायं विलोक्य च
प्रियस्थानमिदं त्याज्यं दुष्टदृष्टिविदूषितम्
सावज्ञं स पुनः प्राह किं करिष्यत्यसौ प्रिये
इतरेद्युरपि प्राप्तः स च श्येनो महाबलः
पुनर्विलोक्य तद्वर्त्म शीघ्रं यातो यथागतम्
नाथ स्थानांतरं यावो मृत्युर्नौ निकटोत्र यत्
प्रिय यस्य सपक्षस्य गतिः सर्वत्र सिद्धिदा
सोपसर्गं निजं देशं त्यक्त्वा योन्यत्र न व्रजेत्
प्रियोदितं निशम्येति स भवित्री दशार्दितः
अथापरस्मिन्नहनि स श्येनः प्रातरेव हि 4.2.76.
अस्ताचलस्य शिखरं याते भानौ गते खगे
नाथ निर्गमनस्यायं कालः कालोऽतिदूरतः
त्वयि जीवति दुष्प्राप्यं न किंचिज्जगतीतले
यद्यात्मा रक्षितः पुंसा दारैरपि धनैरपि
अयमात्मा प्रियो बंधुरयमात्मा महद्धनम्
यावदात्मनि वै क्षेमं तावत्क्षेमं जगत्त्रये
यशोहीनं तु यत्क्षेमं तत्क्षेमान्निधनं वरम्
अतो नीतिपथं श्रुत्वा नाथ स्थानादितो व्रज